________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०,या का
पराशरमाधवः।
७१५
"शुक्रानि हि द्विजोऽन्नानि न भुञ्जीत कदाचन । प्रक्षालितानि निर्दोषाण्यापद्धोऽथवा भवेत् ।। मसूरभाषसंयुकं तथा पर्युषितञ्च यत् ।
तत्तु प्रक्षालितं कृत्वा भुञ्चीत ह्यभिधारितम्" इति । अाश्रयदुष्टमपि न भुञ्जीत । तथाच याज्ञवल्क्यः,
"कदर्यबद्धचोराणां क्लीवरङ्गावतारिणाम् । वैणाभिशस्तबाधुष्यगणिकागणदीक्षिणाम् ॥ चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् । कुरोग्रपतितव्रात्यदांभिकोच्छिष्टभोजिनाम् ॥ अवीरास्त्रीवर्णकारस्त्रीजितग्रामयाजिनाम् । शस्त्रविक्रयिकमारतन्तवायश्ववृत्तिनाम् ॥ नशंसराजरजककृतघ्नबधजीविनाम् । चेलधावसुराजीवमहोपपतिवेश्मनाम् ॥ एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा"-इति। कालधकः । तथाच स्मृत्यन्तरम्,
“श्रात्मानं धर्मकृत्यञ्च पुत्रदारांश्च पीड़येत् ।
लोभाद्यः पितरौ भृत्यान् म कदर्य इति स्मतः" इति ॥ बद्धः ललितः । रङ्गावतारी नटः । वैणो वीणावादनोपजीवी। दीची दीक्षासंस्कारवान् । तस्य चाभोज्यानत्वमनीषोमीयपशवपाहोमपर्यन्तम् । “संस्थितेऽनीषोमीये यजमानस्य रहे नाशितव्यम्" इति श्रुतेः । श्रातुरः पापरोगग्रस्तः । क्रुद्धो दृढ़तरान्तरकोपः। मत्तो धनादिना गर्वितः। क्रूरो निष्कृपः । उग्रः परदुः
For Private And Personal