________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२
पराशरमाधवः।
[श्च०, का।
दीर्घकालस्थित्या नष्टखादु च फेनवञ्च न पेयम् । याज्ञवल्क्योऽपि,
"मन्धिन्यनिर्दशाऽवत्सगोः पयः परिवर्जयेत् ।
औष्टमैकमकं स्त्रैणमारण्यकमथाविकम्" इति ॥ या वृषेण सन्धीयते मा मन्धिनी, अनिशा अनिर्गतदशरात्रा, अवत्मा वत्मरहिता। एतासां गवां पयः परिवर्जयेत् । श्रारण्यकपयो. निषेधश्चारण्यकमहिषीव्यतिरिक्रविषयः । तदाह मनुः,
"अनिईशाया गोः क्षीरमौष्ट्रमैकमफं तथा। श्राविकं सन्धिनीतीरं विवत्मायाश्च गोः पयः ॥
भारण्यानाञ्च सर्वेषां मृगाणां महिषीविना" इति । वमिष्ठोऽपि । “गोमहिय्यकानामनिर्दशाहानां पयो न पेयम्”इति । गौतमोऽपि । “स्थन्दिनीयमसमन्धिनीनाञ्च” इति । क्षीरं न पेयमिति शेषः । स्थन्दिनी स्वतएव स्ववत्पयःस्तनी। यमसूर्यमलप्रमः। बोधायनोऽपि। "क्षीरमपेयं विवत्माया अन्यवत्माया"-इति । आपस्तम्बोऽपि,
"क्षत्रियश्चैव वृत्तस्यो वैश्यः शूद्रोऽथवा पुनः ।
या पिवेत्कापिलं वीरं न ततोऽन्योऽस्त्यपुण्यकृत्" इति ॥ जात्या विशुद्धमपि केशकीटादिसंसर्गदुष्टमात्रं संवर्जयेत् । तथाच देवलः,
"विशुद्धमपि चाहारं मक्षिकाकृमिजन्तुभिः।।
केशरोमनखैचाऽपि दूषितं परिवर्जयेत्” इति ॥ अत्र मक्षिकाकृमिजन्तको मृताः विवक्षिताः। एतैः केशरोमादिभिश्च दूषितं मति सम्भवे वर्जयेत्, असम्भवे तु केशादिकमुद्धत्य
For Private And Personal