________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०, या का० ।
पराशरमाधवः ।
पर
प्रत्याख्यान कर्तव्यमिति । यस्त्वामन्त्रणमङ्गीकृत्य सत्यपि सामर्थ्य पश्चानिवारयति तस्य दोषोऽस्ति । तथाच मनुः,
"केतितस्तु* यथान्यायं इव्यकव्ये द्विजोत्तमः ।
कथञ्चिदप्यतिकामन पापः शूकरतां व्रजेत्" इति ॥ केतिता निमन्त्रितः । यमोऽपि,
"आमन्त्रितश्च यो विप्रो भोनुमन्यत्र गच्छति ।
नरकाणां शतं गत्वा चण्डालेवभिजायते"-दति ।। निमन्त्रितब्राह्मणपरित्यागे प्रत्यवायोऽस्ति । तथाच नारायणः,
"निकेतनं कारयित्वा निवारयति दुर्मतिः। ब्रह्महत्यामवाप्नोति भूट्योनौ च जायते” इति ॥ यस्वामन्त्रिता विप्रचाहतोऽपि श्राद्धकालातिक्रमं करोति तस्य प्रत्यवाय श्रादिपुराणेऽभिहितः,
"आमन्त्रितश्चिरं नैव कुर्याद्विप्रः कदाचन। देवतानां पितृणाञ्च दातुरन्नस्य चैव हि ॥
चिरकारी भवेद्रोही पच्यते नरकामिना" इति । दाभोनोर्ब्रह्मचर्यनियमातिकमे प्रत्यवायस्तु तत्र तत्रोकः । तत्र रद्धमनुः,
"ऋतुकाली नियको वा नैव गच्छेत् स्त्रियं वचित्। तत्र गच्छन् समानोति हनिष्टफलमेव तु"-इति ॥
* केनित,-इति पाठः सेो ना० । एवं परत्र ।। + ऋतुकालं प्राप्येति शेषः। ऋतुकाले,-इति समीचीनः पाठः ।
For Private And Personal