________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[३०,चा०का।
"धोकं भोजयेच्छाढे दैवं तत्र कथं भवेत् । अन्नं पात्रे समुद्भुत्य सर्वस्य प्रकृतस्य तु ॥ देवतायतने कृत्वा यथाविधि प्रवर्तयेत् ।
प्रास्येदनौ तदनन्तु दद्यादा ब्रह्मचारिणे"-इति ।। निमन्त्रणे नियमान्तरमाह मस्यः,
"पठनिमय नियमान् श्रावयेत् पैटकान् बुधः । अक्रोधनः शौचपरैः सततं ब्रह्मचारिभिः॥
भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा"-इति । निमन्त्रितैर्यत्कर्त्तव्यं तदाहात्रिः,
"ते तन्नयेत्यविघ्नेन गतेयं रजनी यदि ।
यथाश्रुतं प्रतीक्षेरन् श्राद्धकालमतन्द्रिताः" इति॥ ते निमन्त्रिता विप्रास्तं श्राद्धकारमविघ्नपूर्वकं तथाऽस्वित्युक्त्वा यथाश्रुतं विहितं नियमजातं, श्राद्धकालं श्राद्धे भुकं यावत् जीर्यति तावदनुतिष्ठेरन्नित्यर्थः । तथाच प्रचेताः,
___ “आऽशनपरिणामानु ब्रह्मचर्य दयोः स्मृतम्" इति । यमोऽपि,
"आमन्त्रितास्तु ये विप्रा श्राद्धकालउपस्थिते । वसेयुर्नियताहारा ब्रह्मचर्यपरायणाः॥ अहिंसा सत्यमक्रोधो दूरे चागमनक्रिया।
प्रभारोहहनश्चेति श्राद्धस्योपामनाविधिः" इति ॥ तथाऽस्त्वित्यङ्गीकारः मति मामर्थे अनिन्दितामन्त्रणविषयः । तथाच कात्यायनः । “अनिन्द्यनामन्त्रिते नातिकामेत्" । केन न
For Private And Personal