________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[३१०,या का।
पादावादाय वैश्योरौ शूद्रः प्रणतिपूर्वकम्" इति। दक्षिणचरणस्पी जानुप्रदेशे कर्त्तव्यः । तथाच मत्स्यः,____ “दक्षिणं जानुमालभ्य त्वं मयाऽत्र निमन्त्रितः" इति ।
पूञ्च निमन्त्रयेदित्यत्र(१) पूर्वपदस्य वैश्वदेवार्थ निमन्त्रयेदिति व्यवहितेनान्वयः। अतएव वृहस्पतिः,
"उपवीती ततो भूत्वा देवताऽथै द्विजोत्तमान् ।
अपसव्येन पिये च स्वयं शिष्योऽथवा सुतः(२)" इति॥ पाणश्राद्धे ब्राह्मणमङ्ख्यामाह पेठीनमिः । “बाह्मणान् सप्त पञ्च द्वौ वा श्रोत्रियानामन्त्रयेत्”-इति॥ ___ यदा पञ्च ब्राह्मणाः, तदा देवे दो पित्ये त्रय इति विभागः । "दौ दैवे पिटकार्ये त्रीन्” इति मनुस्मरणात्। तस्मादयुग्मसङ्ख्यया समविभागार्थ पित्र्ये त्रय इति युक्रम् । यत्तु शौनकेन पित्येऽपि युग्मविधानं कृतं, “एकैकस्य द्वौ द्वौ”-इति, तद्धिश्राद्धविषयम्। पित्रादिस्थानेषु मति सामर्थ्य एकैकस्य चीस्त्री विप्रान भोजयेत् । तथाच शौनकः । “एकैकमेकैकस्य त्रीस्त्रीवा" इति। अत्यन्तविभवे सत्येकैकस्य पञ्च सप्त वा ब्राह्मणान् भोजयेत् । तथाच गौतमः । "नवावरान् भोजयेदयुजो वा यथोत्साहम्" इति ॥
अस्यार्थः। यथोत्माहं यथाविभवं पित्रादिम्थानेषु प्रत्येकमयुजः पञ्च सप्त वा ब्राह्मणान् भोजयेदिति । वचनस्य कथं पञ्चसु सप्तसु वा ब्रा ह्मणेषु पर्यवसानम् ?
(१) पितन् पूर्व निमन्त्र येदिति प्रचेतावचने इत्यर्थः । (२) निमन्त्र येदिति पोषः।
For Private And Personal