SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir इष,या का पराशरमाधवः। ६९३ तस्य तदनुमत्याऽऽधानकरणेऽपि न दोष इत्यर्थः । एवमेव कन्यापरिवेदनेऽपि दोषतदपवादौ द्रष्टव्यो। अधीतविस्मृतवेदो निराकृतिः । तथाच देवलः, "अधीत्य विस्मते वेदे भवेविप्रो निराकृतिः" इति । नानाजातीया अनियमहत्तयो गणास्तेषां मध्यवर्ती गणाभ्यन्तरः। कुशौलवो गायकादिः। उषलीपतिस्तु रजखलायाः कन्यायाः पतिः । तदुकं देवलेन, "वन्ध्या तु वृषली ज्ञेया वृषली च मृतप्रजा। अपरा वृषली जेया कुमारी या रजखला ॥ यस्खेनामुदहेत् कन्यां ब्राह्मणो शानदुर्बलः । प्रश्राद्धेयमपातयं तं विद्यादृषलीपतिम्" इति ॥ यस्य ग्टहे उपपतिर्जारः सदा संवसेत्, मोऽपि वर्मः । तदुकं देवलेन, “परदाराभिगो मोहात् पुरुषो जार उच्यते । स एवोपपति यो यः सदा संवसेनहे"-दति ॥ वाग्दुष्टो निष्ठुरवाक् । पतितैर्महापातकिसंसर्गिभिः सह बाङ्गैर्यानैश्च सम्बन्धैर्विद्यायोनिमम्बन्धैर्यः संयोगं गतः, मोऽत्र विवक्षितः। न तु साक्षात् संसर्गो, तस्य पतितशब्देनैवोपात्तत्वात् । केकरोऽर्धदृष्टिः । अदिधिष्वाः पतिरयेदिधिषपतिः। ज्येष्ठायामनूढायामूढा कनिष्ठा या, साऽयेदिधिषः । तदुकं देवलेन, "ज्येष्ठायां यद्यनढायां कन्यायाम ह्यतेऽनुजा। , मा चादिधिपूर्जया पूर्वा तु दिधिषमता"-इति ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy