SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [३व्य,या०का। पुत्राचार्योऽक्षरपाठकः। भ्रामरी वृत्त्यर्थमेव भ्रमरवदर्थार्जकः । ग्रहसम्बेशको वर्धकिवृत्त्या वर्तमानः। उरभा अवयः। तएव वृत्त्यर्थं पालनीया यस्यासावौरभकः। महिव्यः पाल्यायस्यासौ माहिषकः । अथवा, व्यभिचारिणीपुत्रः । तदाह देवलः, “महिषीत्युच्यते भार्या मा चैव व्यभिचारिणी। तस्यां यो जायते गर्भः स वै माहिषकः स्मृतः" इति ॥ एतान् पूर्वानानुभयत्र दैवे पित्ये च वर्जयेदित्यर्थः । यमोऽपि, "काणाः कुञाश्च षंढाच कृतघ्ना गुरुतल्पगाः । ब्रह्मनाश्च सुरापाश्च स्तेना गोनाश्चिकित्मकाः ॥ राष्ट्रकामास्तथोन्मत्ताः पशुविक्रयिणश्च ये। मानकूटास्तुलाकूटा: शिल्पिनो ग्रामयाजकाः ॥ राजमृत्यान्धवधिरा मूर्खखल्वाटपङ्गवः । वृषलीफेनपीताश्च(१) श्रेणियाजकयाजकाः ॥ कालोपजीविनश्चैव ब्रह्मविक्रयिणस्तथा । दण्डपूजाच* ये विप्राः ग्रामकृत्यपराश्च ये॥ श्रागारदाहिनश्चैव गरदा वनदाइकाः । कुण्डाशिनो देवलकाः परदाराभिमर्शकाः ॥ श्यावदन्ताः कुनखिनः शिल्पिनः कुष्ठिनश्च ये। वणिजो मधुहतारो हत्यश्वदमका विजाः ॥ * दण्डभूजाच,-इति मु० । (१) दृघलीफेनपीताः शूद्रापतयः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy