________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
३१०,या का।
क्षामन्तरेण परिवेदने दोषोऽस्ति । तथाच वसिष्ठः । “अष्टौ दश द्वादशवर्षाणि ज्येष्ठं भातरमनिर्विष्टमप्रतीक्षमाणः प्रायश्चित्ती भवति" इति । अनिर्विटमकृतविवाहम् । अत्रेयं व्यवस्था । अदुछार्थमार्थ वा बादशवर्षप्रतीक्षणं देशान्तरगतज्येष्ठ विषय(१), अष्टौ दति पक्षद्वयं कार्यान्तरार्थ देशान्तरगतविषयम् । तथा मतिः,
"बादशैव तु वर्षाणि ज्यायान् धर्मार्थयोर्गतः ।
न्याय्यः प्रतीक्षितुं भ्राता श्रूयमाणः पुनः पुनः” इति ॥ क्लीवादयस्तु न प्रतीक्षणीयाः । तथाच स्मतिः,
"उन्मत्तः किल्विषी कुष्ठी पतितः क्लीवएववा ।
राजयक्ष्मामयावी च न नाय्यः स्यात्प्रतीक्षितुम्" इति॥ विरनवेश्यातिमकादिषु तु चिरकालानुवृत्त्या विवाहसम्भावनानिवृत्तावधिवेदनं न दोषाय, तत्र कालावधेरश्रतत्वात्। श्राधानविषयेऽपि ज्येष्ठानुमत्याऽधिवेदने न दोषः । तथाच उद्धवसिष्ठः,
"अग्रजश्च यदाऽननिरादध्यादनुजः कथम् ।
अग्रजानुमतः कुर्यादग्निहोत्रं यथाविधि" इति ॥ प्राधानाधिकारिणि ज्येष्ठेऽनाहितामावपि कनिष्ठस्तदनुमत्याऽऽधानं कुर्यादित्यभिप्रायः । अयं न्यायः पित्रादिषु द्रष्टव्यः । तथाचोशनाः,
"पिता पितामहो यस्य अग्रजो वाऽथ कस्यचित् ।
तपोऽग्निहोत्रमन्त्रेषु न दोषः परिवेदने"-दति ॥ यस्य कस्यचित् पिता पितामहो वाऽग्रजो वाऽऽहिताग्निर्न भवति,
(२) यशार्थमर्थार्थं वा देशान्तरगतेत्यन्वयः ।
For Private And Personal