________________
Shri Mahavir Jain Aradhana Kendra
३०, व्या०का० ।]
www.kobatirth.org
मन्तव्यम् । यतः,
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
ब्रह्मचारिण:' - दूति पाचत्वविधानात् । न चाध्ययनरहितस्य ब्रह्मचारिणोऽश्रोत्रियत्वेन श्राद्धे प्रसक्त्यभावात् प्रतिषेधोऽनुपपन्नइति
६
"व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत्”
इत्यत्र दौहित्रग्रहणमविवचितमिति भ्रान्त्या श्रध्ययनरहितोऽपि ब्रह्मचारी श्राद्धे भोजनीयतया प्रसक्रः प्रतिषिध्यतइति । दुर्वाल: खल्वाट: कपिलकेशो वा । तदुकं मंग्रहकारेण -
A
For Private And Personal
" खल्वाटक दुवाल : कपिलचण्डएव च " - इति ॥ कितवो द्यूतासक्तः । पुरयाजकाः गणयाजकाः । श्रत्र, श्राद्धे इति विशेषोपादानाहुवलादीनां श्राद्धएव वर्ज्यत्वं न देवेत्यवगम्यते । अन्यथा, प्रकरणादेवोभयत्र निषेधावगमाद्विशेषोपादानमनर्थकं स्यात् । श्रतएव गौतमः । " हविःषु च दुर्वालादीन् श्राद्ध एवैके ” – इति । हविः षु च देवेऽपि एवं पित्र्यवत्परीक्ष्य दुवीलादीन्वर्जयेत् । एके मन्वादयः श्राद्धएव न भोजयेत्, देवे तु भोजयेदित्याहुरित्यभिप्रायः । चिकित्सकाः जीवनार्थमदृष्टार्थश्च भेषजकारिण: । " तस्माद्ब्राह्मणेन भेषजं न कार्यं श्रपूतेो ह्येषोऽमेध्यो यो भिषक् " - इति विशेषेणैव निन्दार्थवाददर्शनात् । धनार्थं संवत्पुरत्रयं देवार्चको - देवलः । तदुक्तं देवलेन,
"देवार्थनपरो नित्यं वित्तार्थी वत्सरत्रयम् ।
देवलको नाम हव्यकव्येषु गर्हितः ॥
श्रपाङ्क्तेयः स विज्ञेयः सर्व्वकर्मसु सर्वदा " - इति ।
श्रापद्यपि मांसविक्रयिण: । श्रनापदि विपणजीवित्वेनैव निषेधे
87