________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६८८
पराशरमाधवः।
[३१०,या का।
धनुःशराणां का च यश्चाग्रेदिधिषपतिः ॥ मित्रध्रुक् मृतवृत्तिश्च पुत्राचार्य्यस्तथैवच । भ्रामरी गण्डमाली च विश्यथो पिशुनस्तथा ॥ उन्मनोऽन्धश्च वाः स्युर्वेदनिन्दकएवच । हस्तिगोऽश्वोष्ट्रदमकोनक्षत्रैर्यश्च जीवति । पक्षिणां पोषको यश्च युद्धाचार्यस्तथैवच । स्रोतमां भेदकश्चैव तेषाञ्चावरणे रतः ।। ग्रहसम्बेशको दूतो वृक्षरोपकएवच । श्वक्रीडी श्येनजीवी च कन्यादूषकएवच ॥ हिंस्रो सषलपुत्रश्च गणानाञ्चैव याजकः । प्राचारहीनः क्लीवश्च नित्यं याचनकस्तथा ॥ कृषिजीवी शिल्पिजीवी सद्भिर्निन्दितएवच ।
औरभ्रिको माहिषिकः परपूर्वापतिस्तथा ॥ प्रेतनियातकश्चैव वर्जनीयाः प्रयत्नतः । एतान्विहिताचारानपालेयानराधमान् ॥
विजातिप्रवरो विद्वानुभयत्रापि वर्जयेत्” इति । स्तेनोऽत्र ब्रह्मस्वव्यतिरिक्तद्रव्यापहारी विवक्षितः। तट्रव्यापहारिणः पतितशब्देनोपात्तवात्(१) । पारलौकिकफलदं कर्म नास्तीति मन्यमाना नास्तिकास्तेभ्यो उत्तिर्जीविका येषान्ते नास्तिकवृत्तयः । जटिलोब्रह्मचारी । अनधीयानः, दूति जटिल विशेषणम् । अतश्चानधीयानो ब्रह्मचारी प्रतिषिध्यते । न तु ब्रह्मचारिमानं, तस्य श्राद्धे, 'पञ्चाग्नि(१) पाति त्यहेतुमहापातकमध्ये ब्रह्मखापहारस्य परिगणनादिति भावः।
For Private And Personal