________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,चाका.]
पराशरमाधवः।
६८७
कुण्डशब्दोगोलकस्याप्युपलक्षकः। विहितकर्मपरित्यागी वृषलस्तत्मुतोवृषलात्मजः । परपूर्वापतिः पुनर्भूपतिः । अदत्तादायी स्तेनः । कर्मदयाः शास्त्र विरुद्धाचारोपेताः। एते श्राद्धे निन्दिता वाइत्यर्थः । मनुरपि,
"ये स्तेनपतितक्लीवा ये च नास्तिकटत्तयः । तान् हव्यकव्ययो विप्राननीन् मनुव्रवीत् ॥ जटिलं चानधीयानं दुर्वालं कितवन्तथा । याजयन्ति च ये पूर्वान् तांश्च श्राद्धे न भोजयेत् ॥ चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा । यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ॥ ब्रह्मविट परिवित्तिश्च गणाभ्यन्तरएवच । कुशीलवोऽवकीर्णे च वृषलीपतिरेवच ॥ पौनर्भवश्व काणश्च यस्य चोपपतिर्महे । भूतकाध्यापकोयश्च भूतकाध्यापितस्तथा ॥ शूद्र शिव्योगुरुश्चैव वाग्दुष्टः कुण्डगोलको । अकारणपरित्यका मातापित्रोर्गुरोस्तथा ॥ ब्राह्मोनैश्च संबन्धः मयोगं पतितर्गताः । अगारदाही गरदः कुण्डाशी मोमविक्रयी ॥ समुद्रयायी वन्दी च तैलिकः कूटकारकः ।
पित्रा विवदमानश्च केकरो मद्यपस्तथा ॥ केकरः तिर्यगदृष्टिः।
पापरोग्यभिशप्तश्च दाम्भिकोरम विक्रयी ।
For Private And Personal