________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या.का.
पराशरमाधवः।
'व्यासः सुतः' इत्युक्तरयमाशयः;- कलि-धर्म-सम्प्रदायोपेतस्थापि पराशर-सुतस्य यदा तद्धर्म-रहस्याभिधाने सङ्कोचः, तदा किमु वक्रव्यमन्येषाम्, इति । तदेवं व्यास-मुखेन पराशरे गौरवातिण्य-बुद्धिमुत्पादयितुं पराशर-स्मृत्यवतारेऽपि व्यासं प्रति प्रश्नोन व्यधिकरणः, इत्यवगन्तव्यम् ॥
यथाविधि-गुरूपसत्त्या विद्या-प्राप्तिः, इत्यभिप्रेत्य, उपसत्तिं दर्शयति,ततस्ते ऋषयः सव धर्म-तत्त्वार्थ-कांक्षिणः । ऋषि व्यासं पुरस्कृत्य गत्वा* वदरिकाश्रमम् ॥५॥ इति। सर्वच वस्तुनि सामान्येन ज्ञाते विशेषेणाज्ञाते ज्ञानाकाङ्क्षा भवति। धर्म-शब्दोऽत्र सामान्यमभिधने, तत्त्वार्थ-शब्दो विशेषम्। तत्र, सामान्यम्-अधीत-वेदन श्रुत-व्याकरणेन लक्षणप्रमाण-कुश लेन(९) पुरुषेण ज्ञायते । वेदोहि धर्म-सामान्यं निरूपयति;-“धोविश्वस्य जगतः प्रतिष्ठा" इति। (२)शाखान्तराध्यायि
* गताः, इति स. मा. मु. मू० पुस्तकेषु । जग्मुः,-से० मू. पुस्तके पाठः।
वड-परिश्रमालब्धातिशयाऽन्येभ्योविशिष्यते । एतनिवन्धनैव कठादि संज्ञाविशेषाः शाखाविशेषाणाम्। तथा च जैमिनिसूत्रम् । “याख्याप्रवचनात्” (मी० १ अ०, १ पा० ३ सू.) इति । प्रकलं वचनं प्रव.
चनम् । तत्कृता कठादिसमाख्या वेदशाखानामिति सूत्राथः । (१) समानासमानजातीयेभ्यो व्यवच्छेदकम् यत् , तत् लक्षणम् । प्रमिति
साधनं प्रमाणम् । (२) ननु यस्यां शाखायामियं श्रुतिर्नास्ति तच्छाखाध्यायिनां कथं सामान्यतो
For Private And Personal