________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
(४
पराशरमाधवः ।
[३१०,पाका
'एतेनान्तेवासिनो व्याख्याता:'-इत्यापस्तम्बेन शिव्येऽतिदेशात् । यत्तु मनुना कल्पान्तरमुक्तम्,
"कामं श्राद्धेऽर्थयन्मित्रं नाभिरूपमपि त्वरिम् । द्विषता हि हविर्भुकं भवति प्रेत्य निष्फलम्" इति । तन्त्र साक्षादनुकल्याभिप्रायेण, किं त्वनुकल्पानुकल्पाभिप्रायेण । न श्राद्धे भोजयेन्मित्रमिति खेनैव निषिद्धस्य मित्रस्य काममर्चयेदिति सानुशयमेवाभ्यनुज्ञानात् । वमिष्ठोऽप्यनुकल्पानुकल्पमाह,
"श्रानशंस्यं परो धर्मा याचते यत् प्रदीयते ।
अयाचतः मीदमानान् सर्व्वापानिमन्त्रयेत्” इति । पानशस्यमुत्कष्टो धर्मः, तेनायाचतः अयाचनशीलान्, अतएव मीदमानान् निर्गुणानपि सगुणानामनुकल्यानामभावे सापायैर्यथा ते निमन्त्रणमङ्गीकुर्वन्ति, तादृशैरुपायेनिमन्त्रयेदिति । अयाचनशीलानामभावे याचमानाय निर्मुशाय प्रदीयते इति । एतदप्यनुकल्पोभवतीत्यर्थः। सम्भवति मुख्यकल्ये नानुकल्पोऽनुष्ठेयः। तथाऽऽह मनुः,
"प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते।
न साम्परायिकं तस्य दुर्मते विद्यते फलम्" इति ॥ माम्परायिकमुत्तरकालिकं खादिकं फलमिति । भविष्यत्पुराणेऽपि,
"ब्राह्मणातिक्रमोनास्ति मूर्ख वेदविवर्जिते ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि इयते"-इति । वेदविवर्जिते, दूति निर्गुणमात्रोपलक्षणार्थम् । अतएवोक नक
For Private And Personal