SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir इखाका] पराशरमाधवः। ६५ "व्यतिक्रान्तेन दोषोऽस्ति निर्गुणान् प्रति कहिचित् । यस्य त्वेकन्ट हे मूर्खदूरस्थश्च गुणान्वितः ।। गणान्विताय दातव्यं नास्ति मूर्ख व्यतिक्रमः” इति ॥ यत्तु पुराणान्तरेऽभिहितम्, “यस्वामनमतिक्रम्य ब्राह्मणं पतितादृते । दूरस्थं भोजयेन्मढ़ोगुणाढ्यं नरकं ब्रजेत् ॥ तस्मात् संपूजयेदेनं गणं तस्य न चिन्तयेत् । केवलं चिन्तयेज्जातिं न गुणविततां खग ॥ मनिकृष्टं द्विजं यस्तु युतजातिं प्रियंवदम् । मूर्ख वा पण्डितं वाऽपि वृत्तहीनमथापिवा । नातिक्रमेनरोविद्वान् दारिद्याभिहतं तथा"-इति ।। तद्दौहित्रजामात्रादिविषयम् । अतएव मनुः,___ "व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत्” इति ॥ व्रतस्थं केवलवतस्थमध्ययनादिरहितमित्यर्थः । गुणवत्मन्निकटा. तिक्रमे तु प्रत्यवायोऽस्ति । तथाच पुराणम्, "सप्त पूर्वान् सप्त परान् पुरुषानात्मना सह । अतिक्रम्य दिजवरान् नरके पातयेत् खग ॥ तस्मानातिकमेद्विज्ञो ब्राह्मणान् प्रातिवेशिकान् । संबन्धिनस्तथा मान दौहित्रं विटपतिन्तथा ॥ भागिनेयं विशेषेण तथा बन्धु खगाधिप । नातिकमेन्नरश्चैतानमूर्खानपि गोपते ॥ अतिक्रम्य महारौद्रं रौरवं नरकं व्रजेत्” इति ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy