________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
धा.का.।
ब्रह्मदेयापतिश्चैव ब्राह्मणा: पङ्गिपावनाः ।। यजुषां पारगो यश्च मानां यश्चापि पारगः । अथर्वशिरसोऽध्येता ब्राह्मणाः पतिपावनाः ।। नित्यं योगपरो विद्वान समलोटाग्मकाञ्चनः ।
ध्यानशीलो यतिर्विद्वान् ब्राह्मणः पतिपावनः" इति ॥ वोधायनोऽपि । “त्रिमधुस्विनाचिकेतस्त्रिसुपM: पञ्चानिः षडङ्गवित्तिशीर्षकोऽध्येता मामगा इति पतिपावनाः" इति। हारीतोऽपि । "स्थितिरविच्छिन्नवेदवेदिताऽयोनिसकरित्वमार्षयत्वञ्चेति कुलगुणाः, वेदाङ्गानि धोऽध्यात्मविज्ञानं स्मृतिश्चेति षविधं श्रुतं, ब्राह्मण्यता देवपित्भकता ममता मौम्यताऽपरोपतापिताऽनसूयता अनुद्धतता
पारुष्यं मित्रता प्रियवादित्वं कृतज्ञता शरण्यता प्रशान्तिश्चेति चयोदविधं शीलम्,
क्षमा दमोदया दानमहिमा गुरुपूजनम् ।
शीलं स्नानं जपोहोमस्तपः स्वाध्यायएवच ।। मत्यवचनं मन्तोषो दृढव्रतत्वमुपव्रतत्वमिति षोडश गुणाः वृत्तं, तस्मात् कुलीनाः श्रुतशीलवन्तो उत्तस्याः सत्यवादिनोऽव्यङ्गाः पालेयाः। द्वादशोभयतः श्रोत्रियस्त्रिनाचिकेतस्त्रिसुपर्णस्त्रिमधुस्त्रिशीर्षको ज्येष्ठसामगः पञ्चाग्निः पडङ्गविद्रजाप्यूद्धरेताः ऋतुकालगामी तत्त्वविच्चेति पतिपावना भवन्ति" । स्थितिरविच्छिन्नसन्तानता। अविच्छिनवेदवेदितेत्यत्र इविरासादनार्थदेशविशेषवाची वेदिशब्दो हविःसाध्य यागं लक्षयति । आर्षेयत्वं प्रवरवर्त्तिऋषिज्ञानत्वम् । धौधर्मशास्त्र, विज्ञानं वैशेषिकादिशास्त्र विज्ञानम् । स्मृतिर्वेदशास्त्राविस्मरणम् ।
For Private And Personal