________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३०,या का
पराशरमाधवः ।
बचच त्रिसौपर्म: त्रिमधुर्वाऽथ यो भवेत् ॥ त्रिनाचिकेता विरजाश्छन्दोगो ज्येष्ठसामगः । अथर्वशिरसोऽध्येता सर्वे ते पतिपावनाः ।। शिशुरप्यग्निहोत्री च न्यायविञ्च षडङ्गवित् । मन्त्रब्राह्मणविचैव यश्च स्याद्धर्मपाठकः ।। ब्राह्मदेयासुतश्चैव भावशुद्धः सहस्रदः । चान्द्रायणव्रतचरः सत्यवादी पुराणवित् ॥ निष्णातः सर्वविद्यासु शान्तो विगतकल्मषः । गुरुवेदाग्निपूजासु प्रसको जानतत्परः ।। विमुकः सर्वदा धीरो ब्रह्मभूतो द्विजोत्तमः । अनमित्रो न चामित्रो मैत्र श्रात्मविदेवच ॥ स्वातको जप्यनिरतः सदा पुष्पाल प्रियः । ऋजुर्मदुः क्षमी दान्तः शान्तः सत्यव्रतः इचिः वेदज्ञः सर्वशास्त्रज्ञः उपवासपरायणः । ग्रहस्थो ब्रह्मचारी च चतुर्वेद विदेवच ।।
वेदविद्यावतस्नाताः ब्राह्मणाः पतिपावनाः" इति । पैठीन मिरपि । “अथात: पतिपावना भवन्ति बिनाचिकेतस्त्रिमस्तिसुपर्मश्चीर्णव्रतश्छन्दोगोज्येष्ठसामगो ब्रह्मदेयासुमन्तानः सहसदो वेदाध्यायी चतुर्वेदषडङ्ग वित् अथर्वशिरसोऽध्यायी पञ्चाग्निवैदजापी चेति, तेषामेकैकः पुनाति पति नियुको मूर्धनि सहस्ररण्युपहताम्" इति । शङ्खोऽपि,
"ब्रह्मादेयानुसन्तानो ब्रह्मदेयाप्रदायकः ।
86
For Private And Personal