SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परापारमाधवः। (३०,घा०का। ३च "उकलक्षणमम्पन्न विद्याशीलगुणान्वितैः । पुरुषत्रयविख्यातः सर्व श्राद्धं प्रकल्पयेत्” इति ॥ म पावणे कोद्दिष्टात्मकम् । अतएव मनुनाऽपि पितुः श्रोत्रियत्वेन पुत्रस्य श्रेष्ठ्यमुक्तम्, "अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः । अश्रोत्रियो वा पुत्रः स्यात् पिता स्यावेदपारगः ॥ ज्यायांसमनयोविद्याद्यस्य स्थाच्छ्रोत्रियः पिता"-इति ॥ श्राद्धे भोजनीयाब्राह्मणा याज्ञवल्क्येन दर्शिताः, "अय्या: सर्वेषु वेदेषु श्रोत्रियोब्रह्मविद्युवा । वेदार्थवित् ज्येष्ठमामा त्रिमधुस्त्रिसुपर्णकः ॥ कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निब्रह्मचारिणः । पिटमा पराश्चैव ब्राह्मणाः श्राद्धसम्पदः' इति ॥ ऋग्वेदादिसर्ववेदेवय्या वर्णिताध्ययनक्रमाः। श्रोत्रियाः श्रुताध्ययनमम्पन्नाः । ब्रह्मवित् ब्रह्मज्ञानवान् । युवा मध्यमवयस्कः । युवत्वञ्च सर्वविशेषणम् । वेदार्थविद्धर्मज्ञानवान्। ज्येष्ठ सामेति सामविशेषस्ततं च । तद्वताचरणेन यस्तदधीते, म ज्येष्ठमामा। त्रिमधुः ऋग्वेदेकदेशः तद्वतच्च । तद्वताचरणेन तदध्यायी त्रिमधुः । त्रिसुपर्ममृग्यजुषयोरेकदेशस्तद्वतच । तदाचरणेन यत्तदधीते म त्रिसुपर्मकः । ब्राह्मणा न क्षत्रियादयः । उकलक्षणा एते ब्राह्मणाः श्राद्धस्याक्षयफलमम्पादकाइत्यर्थः । वृहस्पतिरपि, "यद्येकं भोजयेच्छाडे छन्दोगं तत्र भोजयेत् । ऋचो यजूषि मामानि त्रितयं तत्र विद्यते ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy