________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,था.का.)
पराशरमाधवः ।
"श्राद्धीयेऽहनि संप्राप्ने यस्य भार्या रजखला।
श्राद्धं तत्र न कर्त्तव्यं कर्त्तव्यं पञ्चमेऽहनि”-इति नोकगौतमवचनमन्यथा पठित्वा, श्राद्धादौ कर्मणि भार्यया महैवाधिकारश्रवणात्तस्यां रजोदर्शनदूषितायामधिकारनिवृत्तेर्मुख्यकालमतिक्रम्य पञ्चमेऽहनि श्राद्धं कर्त्तव्यमिति मन्यन्ते। __ नम्वस्मिन्पाठेमावास्यादिश्राद्धस्यापि पञ्चमेऽहन्यत्कर्षः प्राप्तोति ? मैवं, श्राद्धविघ्ने विजातीनामिति हारीतवचनेनामावास्यादिव्यामस्यान्नकार्य मोमकार्य पूतीकवदिहितत्वात् । श्राद्धीयेऽहनीत्यस्य वचनस्य मृताहव्यतिरिक्रविषयत्वेन मार्थकत्वमस्विति चेत् । भवेदेतदेवं, यदि विषयान्तरं वतुं शक्यत । न त्वेतदस्ति, मृताहविषयत्वन्त मृतेऽहनि तु संप्राप्ने इति स्मत्यन्तरवचनादेवावगम्यते । तस्मादेकभार्येण मृताहश्राद्धं रजोदर्शनरूपविघ्नोपरमकालएव कर्त्तव्यं, भायातरयकेन त्वधिकारानपगमान्मूख्यएव काले कर्त्तव्यमिति । यदत्र युकं तबाह्यम्। श्राद्धे भोजनीयबाह्मणपरीक्षा कर्तव्या। तत्र श्राद्धं प्रकृत्य यमः,
"पूर्वमेव परीक्षेत ब्राह्मणान् वेदपारगान् । शरोरप्रभवैविशुद्धांश्चरितव्रतान् ॥ दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान्।
दृष्टान्वा यदि वाऽनिष्टांस्तत्कालेनैवमानयेत्”-दति ॥ पूर्वमिति निमन्त्रणात् पूर्वमित्यर्थः। शरीरप्रभवादोषाः कुष्ठापस्मारादयः। दूरादिति प्रपितामहादारभ्य भोजनीयब्राह्मणपर्यन्तम् । तथाच छागलेयः,
For Private And Personal