________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परापूरमाधवः ।
।३०,धा.का.।
___ न च कात्यायनव्याघ्रपादवचनपालोचनया मासिकप्रत्याब्दिकयोरप्यामश्राद्धं प्राप्नोतीति मन्तव्यम् । माममाम्बत्मरादृते,-दति विशेषवचने नामश्राद्धस्य तयतिरिकविषयत्वागमात् । अतएव मरीचिः
"अननिकः प्रवासी च यम्य भाया रजस्खला।
श्रामश्राद्धं द्विजः कुर्यान तत्कुर्यान्मृतेऽहनि"--दति ॥ तदामश्राद्धं मृतेऽहनि न कुर्यात्, किन्तु पक्वान्नेनैव कुर्यादित्यर्थः । लोगाधिरपि,
"पुष्यवत्वपि दारेषु विदेशस्योऽप्यननिकः ।
अन्नेनैवाब्दिकं कुर्यात् हेम्बा वाऽऽमेन वा क्वचित्" इति ॥ यनु स्मत्यन्तरे भार्यायां रजस्खलायां मृतेऽहनि श्राद्धनिषेधः,
"मृतेऽहनि तु संप्राप्ते यस्य भार्या रजस्वला ।
श्राद्धं तदा न कर्त्तव्यं कर्त्तव्यं पञ्चमेऽहनि"-दति ॥ तस्यायं विषयः । अपुत्रायाः पत्न्याएव पत्युमताहश्राद्धेऽधिकाराद्यदा खयमेव रजस्वला स्यात्तदा मृतेऽहनि श्राद्धं न कर्नव्यं, किन्त पञ्चमेऽहनीति । तथाच श्लोकगौतमः,
"अपुत्रा तु यदा भाया संप्राप्ते भर्तराब्दिके । रजस्वला भवेत्मा तु कुर्यात् तत्पञ्च मेऽहनि"-इति ॥ प्रभामखण्डेऽपि,
"शुद्धा मा तु चतुर्थेऽगि स्नानान्नारी रजस्वला।
देवे कर्मणि पिव्ये च पञ्चमेऽहनि शुध्यति" इति ॥ अन्ये तु,
For Private And Personal