SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३चयाका परापारमाधवः। "तिथिच्छेदो न कर्त्तव्यो विनाऽऽशौचं यदृच्छया। पिण्डं श्राद्धञ्च दातव्यं विच्छिनिं नैव कारयेत्” इति ॥ चकारेणानौकरणं समुच्चिनोति । श्राद्धशब्देनात्र ब्राह्मणतर्पणमात्र विवक्षितं, पिण्डदानस्य पृथगुपात्तत्वात्। विच्छित्तिं नैव कारयेदिति ब्राह्मणं कर्त्तमममर्थश्चेत्पिण्डप्रदानमात्रमपि कुर्यात्, सर्वथा पित्रर्चनस्य विच्छेदं न कुर्यादित्यर्थः । अतएव निगमः। "अाहिताः पित्रर्चनं पिण्डैरेव ब्राह्मणानपि वा भोजयेत्”-इति। अत्र व्यवस्थितोविकल्यः । मति मामर्थ्य ब्राह्मणतर्पण पिण्डप्रदानञ्च कुर्यात्, तत्रामामर्थ्य पिण्डप्रदानमात्रमिति । यत्त पीतेन श्राद्धविन्ने समुत्पन्ने अमावास्यादिष्वामश्राद्धं विहितम्, "श्राद्धविघ्ने द्विजातीनामामाई प्रकीर्तितम् । अमावास्यादिनियतं मासमाम्बत्सरादृते"-दति ॥ मासं मासिकं, माम्वत्सरं सांवत्सरिकम् । नभायारजोदर्शनकृतविनविषयम् । तथाऽऽहोशनाः, "अपत्नीकः प्रवासी च यस्य भाया रजस्वला। . सिद्धान्नं न प्रकुर्वीत आमन्तस्य विधीयते” इति ॥ कात्यायनोऽपि, "प्रापद्यनग्नौ तीर्थे च प्रवासे पुत्रजन्मनि । आमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला"--इति ॥ व्याघ्रपादोऽपि, "आर्तवे देशकालानां विप्लव समुपस्थिते । श्रामश्राद्धं द्विजैः कार्य शूद्रः कुर्यात्मदेव हि" इति ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy