________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
३०,चाका० ।
"श्राद्धविघ्ने ममुत्पन्ने अन्तरा मृतस्तके ।
अमावास्यां प्रकुर्चीत शुद्धावेके मनीषिणः"-इति ॥ अन्तरा प्रयोगमध्ये पाकोपक्रमात् प्राक् हतके मृतके वा जाते अमावास्थाममावास्यायां शुद्धौ शुद्ध्यनन्तरं वा श्राद्धं प्रकुर्वीतेति। एतदनुमासिकमांवत्सरिकश्राद्धविषयम् । अतएवोतं षड्विंशमतेन,
"मासिकेऽब्दे तु संप्राप्ने अन्तरा मृतस्तके ।
वदन्ति शुद्धौ तत्कार्यं दर्श वाऽपि विचक्षणाः" इति ॥ दर्शग्रहण शुक्लकृषोकादश्योरुपलक्षणार्थम् । अतएव मरीचिः,
"श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि ।
एकादश्यान्तु कर्त्तव्यं कृष्णपक्षे विशेषतः” इति ॥ कृष्णपक्षे या एकादशी तस्यां विशेषतः कर्तव्यमिति योजना। पिन कार्य कृष्णपक्षस्यैव विशेषतो ग्राह्यत्वात् । कृष्णैकादशीतोऽपि अमावास्याया मुख्यत्वं पिटकायें दण्डापूपन्यायसिद्धम्। एतदक भवति। श्राशौचसमनन्तरकालो मुख्यकालमनिकृष्टत्वाच्छ्रेष्ठतमः । दर्शकालस्तु मुख्यकालप्रत्यासत्त्यभावात् ततो जघन्यदति । अतएव ऋष्यश्रङ्गः
"शुचौभूतेन दातव्यं या तिथिः प्रतिपद्यते ।
मा तिथिस्तस्य कर्त्तव्या न चान्या वै कदाचन"-इति ॥ शुचिना तावच्छ्राद्धं कर्त्तव्यं, तत्राशौचवशान्मुख्यकाले शुद्ध्यभावे प्राद्यानन्तरं या तिथिः प्रतिपद्यते लभ्यते, मा तिथिस्तस्य कर्मणोऽङ्गत्वेन स्वीकर्त्तव्या। आशौचाद्यनुपाते तु मुख्यकालो नालम्यादिनाऽतिक्रमणीयः । तदाह मएक
For Private And Personal