________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,षाका
परापारमाधवः।
६०३
तानि मायपि प्रतिपदोनैकोद्दिष्यविध्यभावे द्रष्टव्यानि । एतछार्द्ध मृतकादिना मुख्यकालातिक्रमे त्वाशौचापगमानन्तरकालएव कार्यम्। तथाच सृष्यारङ्गः,
"देये पितॄणां श्राद्धे तु श्राशौचं जायते तदा।
श्राशौचे तु व्यतिकान्ते तेभ्यः श्राद्धं प्रदीयते"-इति ॥ यत्त्वत्रिवचनम्,
"तदहश्चेत्प्रदुष्येत केनचित्सूतकादिना ।
सूतकानन्तरं कुर्यात् पुनस्तदहरेव वा"-इति ॥ मृतकानन्तरकाले वा अनन्तरे वा मासि तत्पने तत्तियो वेति पक्षदयमुपन्यस्तं, तत्राद्ये पक्षे विरोधएव नास्ति, पुनस्तदहरेव वेत्ययं पक्षः मृतकव्यतिरिक्रनिमित्तान्तरेण विघ्ने समुत्पन्ने प्रतिमासं क्षयाहे विहितकोद्दिष्टमासिकश्राद्धविषयति ऋथाटङ्गवचनाविरोधाय व्यवस्थाप्यते । अतएव देवलः,
"एकोद्दिष्टे तु संप्राप्ते यदि विघ्नः प्रजायते ।
अन्यस्मिंस्तत्तिथौ तस्मिन् श्राद्धं कुर्यात्प्रयत्नतः" इति ॥ अन्यस्मिन्ननन्तरे मासि तत्तिथौ स्मृततिथौ, यस्मिन् एक्त कृष्णों वा मृतस्तम्मिन्पक्षे श्राद्धं विघ्नवशात्कुर्यादित्यर्थः। शौचनिमितकविघ्ने तु मामिकश्राद्धमपि मृतकानन्तरमेव ऋष्याटङ्गवचनवलादनुष्ठेयम् । देवस्वामिनाऽप्येवमेव विषयव्यवस्था कृता। एतत् सृष्यष्टङ्गवचनं मृतकाशौचविषयम् । निमित्तान्तरतस्तदरर्विघाने,
"एकोद्दिष्टे तु संप्राप्ते यदि विघ्नः प्रजायते"इत्यादि स्मृत्यन्तरवचनमिति । यत्तु व्यासेनोकम्,
For Private And Personal