________________
Shri Mahavir Jain Aradhana Kendra
o, याoकाo ]
www.kobatirth.org
पराशर माधवः ।
षोड़श दिवस विध्योर्बीहियववद्विकल्पोऽस्तु । नभस्यापरपचस्य कन्यास्थाकी वितत्वेन प्रशस्ततरतोच्यते, तदभावेऽपि तस्य प्रशस्तत्वात् । तदाह जावालि:, -
Acharya Shri Kailashsagarsuri Gyanmandir
"अगतेऽपि रवौ कन्यां श्राद्धं कुर्व्वीत सर्व्वथा ।
श्राषाढ्याः पञ्चमः पक्षः प्रशस्तः पितृकर्मसु ॥
पुत्रानायुस्तथाऽऽरोग्यमैश्वर्यमतुलं तथा । प्राप्नोति पञ्चमे दत्त्वा श्राद्धं कामांस्तथाऽपरान" - इति ॥
बृहन्मनुरपि -
" श्राषाढ़ीमवधिं कृत्वा पञ्चमं पचमाश्रिताः । काङ्क्षन्ति पितरः क्लिष्टा श्रन्नमप्यन्वहं जलम् ॥ तस्मात्तत्रैव दातव्यं दत्तमन्यत्र निष्फलम् | आषाढीमवधिं कृत्वा यः पक्षः पञ्चमो भवेत् ॥ तत्र श्राद्धं प्रकुर्वीत कन्यास्योऽकी भवेन्न वा " - इति ॥ अस्य पक्षस्य रवेः कन्यागतत्वेन प्रशस्ततरत्वञ्चादिपुराणे दर्शितम्, - "पक्षान्तरेऽपि कन्याम्ये रवौ श्राद्धं प्रशस्यते । कन्यागते पञ्चमे तु विशेषेणैव कारयेत्” इति ॥
शोकगौतमोऽपि -
81
" कन्यागते सवितरि यान्यहानि तु षोड़श । क्रतुभिस्तानि तुल्यानि सम्पूर्ण वरदक्षिणैः" - इति ॥
शाय्यायनिरपि -
“ पुण्यः कन्यागतः सूर्यः पुण्यः पचश्च पञ्चमः । कन्यास्थाकीन्वितः पचः सोऽत्यन्तं पुण्यउच्यते " - इति ॥
For Private And Personal