________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[श्चा ,पाका.
श्रादिमधावसानेषु यत्र कपन कन्यान्वितन्वेन कृत्स्नः पक्षः पूज्यरत्यर्थः । अतएव कार्णाजिनिः,
"प्रादौ मध्येऽवमाने वा यत्र कन्यां प्रजेद्रविः ।
स पक्षः सकलः पूज्यः श्राद्धषोड़शकं प्रति" इति ॥ प्रतिपदादिदर्शान्तं श्राद्ध कर्तुमसमर्थक्षेत्, पञ्चम्यादिदर्शान्तमष्टम्यादिदर्शान्तं वा यथाशक्ति श्राद्धं कुर्यात् । तदाह गौतमः । “अपरपक्षे श्राद्धं पिलभ्योदद्यात् पञ्चम्यादिदर्शान्तमष्टम्यादि दशम्यादि सर्व मिन् वा"-इति । ब्रह्माण्डपुराणेऽपि,
"नभस्यसष्णपक्षे तु श्राद्धं कुर्यादिने दिने ।
विभागहीनपक्ष वा विभागं वर्द्धमेव वा"-दति ॥ अत्र प्रतिपदादिदर्शान्तमित्यस्मिन्पक्षे नन्दाऽऽदिकं न वय॑म् । तदाह कार्णाजिनिः,
"नभस्य स्थापरे पते श्राद्धं कुर्यादिने दिने । नैव नन्दाऽऽदि वज्यं स्यान्नैव वा चतुर्दशी"-इति ॥
नम्वेतत्
__ "प्रतिपत्प्रतिबेकां वर्जयित्वा चतुर्दगीम्" इति याज्ञवल्क्यवचनेन विरुध्येत इति चेत् । न । तस्य वचनस्य पञ्चम्यादिपक्षविषयत्वेनोपपत्तेः । अन्यथा, कार्णाजिमिवचनस्थानर्थक्यं प्रमज्येत। अतएव कात्यायनः । “अपरपक्षे श्राद्धं कुर्वीत अर्द्धव चतुर्था यदहः सम्पद्यते सप्तम्या ऊर्द्धं यदहः मम्पद्यते सते चतुर्दशी, भाकेनाप्यपरपदं नातिकामेत्" इति। मनुरपि,
"कृष्णपक्षे दशम्यादौ वर्णयित्वा चतुर्दशीम् । श्राद्धे प्रास्तास्तिथयो यर्थता न तथेतराः" इति ॥
For Private And Personal