________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३च०,वाका
परापारमाधवः ।
पारोग्यमथ मौभाग्यं समरे विजयं तथा ॥ सर्वकामांस्तथा विद्यां धनं जीवितमेवच ।
आदित्यादिदिनेम्वेवं श्राद्धं कुर्वन् सदा नरः ॥
क्र मेणेतान्यवाप्नोति नात्र कार्या विचारणा"-इति ॥ प्रतिपदादितिथयोऽपि काम्यश्राद्धकालाः । तदाह मनुः,
"कुर्वन् प्रतिपदि श्राद्धं सुरूपान्विन्दते सुतान् । कन्यकान्तु द्वितीयायां हतीयायान्तु वन्दिनः ।। पशून् क्षुद्रांश्चतुर्थान्तु पञ्चम्यां शोभनान् सुतान् । षष्ठ्यां द्यूती कृषिञ्चैव सप्तम्यां लभते नरः॥ अष्टम्यामपि बाणिज्यं लभते श्राद्धदः सदा । स्थानवम्यामेकखुरं दशम्यां द्विखुरं बहु॥ एकादश्यां तथा रूप्यं ब्रह्मवर्चखिनः सुतान् । द्वादश्यां जातरूपन्तु रजतं रूप्यमेवच ॥ जातिश्रेष्ठ्यं त्रयोदश्यां चतुई ग्यान्तु सुप्रजाः । प्रीयन्ते पितरश्चास्य ये शस्त्रेण रणे इताः ॥
श्राद्धदः पञ्चदश्यान्तु सर्वान् कामान् समश्रुते” इति। याज्ञवल्क्योऽपि,
"कन्यां कन्यावेदिनश्च पशून क्षुद्रान सुतानपि।।
द्यूतं कृषिञ्च वाणिज्यं तथैकद्विशफानपि ॥ * सम्पदः, इति मु.। | वृतं,-इति सोः ना० पु० । एवं परत्र । | पशून् वै सत्सुतानपि,-इति मु. । विशफैकशफास्त था,-इति मु. ।
For Private And Personal