________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०, धा०का० ।]
प्रविशेयः समालभ्य लम्वाऽश्मनि पदं शनैः " - इति ॥ श्रचापरोविशेषः शङ्खन दर्शितः । “दूर्वा प्रबालमग्निं वृषभं चालभ्य ग्टहद्वारे प्रेताय पिण्डं दत्त्वा पश्चात् प्रविशेयुः " - इति । श्रशौचिनियमा मनुना दर्शिताः, -
तदाह सम्बर्त्तः,
पराशर माधवः
Acharya Shri Kailashsagarsuri Gyanmandir
“श्रचारलवणाम्नाः स्युर्निमज्जेयुश्च तेऽम्बरम् ।
मांसाशनञ्च नाश्रीयुः शयीरंच पृथक् चितौ ” - इति ॥ मार्कण्डेयेनापि -
“क्रीतलभ्धाशनाचैव भवेयुः सुसमाहिताः ।
न चैव मांसमश्रीयुर्ब्रजेयुर्म च योषितम् " - इति ॥ गौतमेनापि । “अधः शय्यासना ब्रह्मचारिणः सर्वे समासीन्मांस न भक्षयेयुराप्रदानात् प्रथमदतीयसतमनवमेषूदककर्म नवमे वासस त्यागः श्रन्ये त्वन्यानाम्” इति । प्रदानं प्रेतैकोद्दिष्टश्राद्धं वाससां त्यागस्तु प्रचालनार्थं रजकार्पण, श्रन्यं दशममहः, तत्रान्यानामत्यन्तपरित्याज्यानां वासां त्याग इत्यर्थः । प्रथमेऽहनि प्रेतमुद्दिश्य जलं चीरं चाकाशे शिक्यादौ पात्रद्वये स्थापनीयम् । तदाह याज्ञवल्क्यः,"जलमेकाहमाकाशे स्थाप्यं चीरञ्च मृणमये" इति । प्रथमतृतीयमतमनवमदिवसानामन्यतमस्मिन्नस्थिसञ्चयनं कार्यम् ।
"प्रथमेऽद्वितीये वा सप्तमे नवमे तथा ।
यिनं कार्यं दिने तगोत्रजैः सह " - इति ॥
* पच्चमेऽथवा, - इति मु० ।
For Private And Personal
६४५