________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,या०का०]
पराशरमाधवः।
६२६
साधनं, तथापि युद्धमरणस्यात्यल्पकालमाध्यत्वेन वैकल्यासम्भवादुत्तमसाधनत्वमित्याह,
यं यज्ञसङ्घस्तपसा च विप्राः स्वर्गेषिण वाऽत्र यथैव यान्ति। क्षणेन यान्त्येव हि तब वीराः
प्राणान् सुयुद्धेन परित्यजन्तः॥३६ ॥ इति । विप्रशब्देन निष्कामा विवक्षिताः। तथाच स्वर्गेषिणो देति विकल्प उपपद्यते। अत्र पुण्यलोकेषु यं लोकविशेषं यथैव येन प्रकारविशेषेण देवकन्यावरणादिना युक्ताः सन्तोयान्ति । तत्र तेषु पुण्यलोकेषु तमेव लोकविशेषन्तेनैव प्रकारेण युद्धहतावीराश्च यान्ति । क्षणेनेत्युक्तं कालाल्पत्वमेतेवतिशयः ।
ननु कालस्याल्यत्वेऽपि प्राणभीतेर्दुष्परिहरत्वात्पूातं युद्धधैर्य दुर्लभमित्याशय विचारवतः पुरुषस्य तत् सुलभमित्यभिप्रेत्य तं विचारं दर्शयति,जितेन लभ्यते लक्ष्मीमतेनापि सुराङ्गणा। क्षणध्वंसिनि कायेऽस्मिन् का चिन्ता मरणेरणे॥३७॥इति
जितेनेति कर्तरि निष्ठा । ततो जयेन लक्ष्मीलाभः, भरणेन सुराङ्गनालाभः । यदि कायजीवनलोभालक्ष्मीदेवांगनालाभौ न पर्यालोच्येते, तथापि लाभपरित्यागमा तस्य केबलमविशिष्यते । कायस्तु सर्वथा न चिरं जीवति, तस्य कर्मप्रापितायुष्यवशवर्तित्वेन क्षणप्रध्वंसिस्वभावत्वात् ।
For Private And Personal