________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्च०, व्या०का० ॥]
यच यच हतः शूरः शत्रुभिः परिवेष्टितः ॥३१॥ अक्षयान् लभते लोकान् यदि क्लीबं न भाषते । इति ॥
1
लोके शस्त्रधारिणमेकमपि दृष्ट्वा महती प्राणभीतिजीयते । युद्धकाले तु प्रतिसैन्यगताः सर्वेऽपि शचवः शस्त्रधारिणोमारणोद्यता एनं परिवेष्टयन्ति । तदानीमुत्पद्यमानायाभीतेरियत्तैव नास्ति, तादृशों भीतिं सोडा प्रतिभटाभिमुख्यं गच्छतः शूरस्य धैर्यं योगिधैर्यदप्यधिकम् । नहि योगिनो यमनियमादिषु क्वचित्प्राणभीतिः सम्भाविता । ततो यथा जागरले बहुषु वत्मरेषु अनुभवनीयस्य भोगस्य मुहर्त्तमात्रवर्त्तिनि स्वप्ने साकल्यं दृश्यते, तथा चिरकालभावियोगसाम्यं रणे धैर्यवतः किं न स्यात् । धैर्यतिशयेन साम्यमत्र विवचितमिति दर्शयितुं, यदि क्लीबं न भाषते - इत्युक्रम्। क्लीबं नपुंसकत्वं विकलता, तत्सूचकं भीत्याविष्कारकवाक्यं यदि न भाषेत, तदानीं योगसाम्यादस्यान् ब्रह्मलोकावान्तरविशेषान् मालोक्यादीन् लभते ।
परिब्राजकदृष्टान्ते सूर्यमण्डलभेदित्वं सम्भावयति,
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
६२७
संन्यस्तं ब्राह्मणं दृष्ट्वा स्थानाच्चलति भास्करः ॥ ३२ ॥ एष में मण्डलं भित्त्वा परं स्थानं प्रयास्यति । इति ॥
For Private And Personal
यद्यपि मण्डलस्याचेतनर मिसमूहरूपत्वात्तद्भेदेऽपि नास्ति काचिदादित्यस्य वेदना, तथापि पूर्व्वमत्यन्तनीचपदे वर्त्तमानस्येदानीमुच्चपदप्राप्तिश्चित्तक्लेश हेतुर्भवति । श्रतएव, भित्त्वा परं स्थानं प्रयास्यतीत्युक्तम् । एतदेवाभिप्रेत्य व्यासश्राह -
“क्रियावद्भिर्हि कौन्तेय, देवलोकः समावृतः । न चैतदिष्टं देवानां मयैरुपरि वर्त्तनम् " - इति ।