SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६२६ पराशरमाधवः। ०,घा०का। चावषयम्। "डिम्भावहतानाच विद्यता पार्थिवेन च। गोब्राह्मणस्य चैवार्थ यस्य चेच्छति भूमिपः" इति ॥ तदमनिधिविषयम्। रणहतमपिण्डानामेकाहाशौचविधिशेषतया नवभिः श्लोकराहवे हतं प्रशंसति। तत्र प्रथमं परिव्राजकदृष्टान्तेनादित्यमण्डलभेदित्वं दर्शयन्नाद्ब्रह्मलोकप्राप्तिं दर्शयति, हाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ॥३०॥ परिब्राड्योगयुक्तश्च रणे चाभिमुखोहतः । इति ॥ योगाभ्यासेनेश्वरमुपासीनः परिबाजकोऽचिरादिमार्गेण ब्रह्मलोकं गच्छन् मार्गमध्ये वाय्यादित्यचन्द्राणां मण्डलानि क्रमेण भित्त्वा तत्र तेभ्य उत्तरतोत्तराधिकेभ्यः छिद्रेभ्यो निर्गत्य क्रमेण विद्युदादिलोकान् सञ्चरन् ब्रह्मलोकं प्राप्तोति । छिद्रनिर्गमणं वाजसनेयिब्राह्मणे श्रुतम् । "म वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स श्रादित्यमागच्छति तस्मै स तत्र विजिहीते यथा उदुम्बरस्य खं तेन स अर्ध्वमाक्रमते म चन्द्रमसमागच्छति तम्मै म तत्र विजिही ते यथा दुन्दुभे खं तेन स ऊर्ध्वमाक्रमते"इति । तत्र चिरकालं महता प्रयासेन योगमभ्यस्थता परिव्राजकेन तह समानगतित्वं रणहतस्यायुकं तस्मादल्पकालप्रयासत्वादित्याशय, कालाल्पत्वेऽपि धैर्यानिशयेन प्रयाममाम्यं सूचयितुमभिमुखइत्युकम् । तमेव सूचितमय विशदीकरोति. For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy