________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३ख०,धा का०]
पराशरमाधवः ।
६२५
देवलेनापि,
"पुनः पाते दशहात्याक् पूर्वेण सह गच्छति । दशमेऽकि पतेद्यस्य ाहतः स विध्यति॥
प्रभाते तु त्रिरात्रेण दशरात्रेवयं विधिः” इति। दशाहात्यागित्यत्र दशाहशब्दोऽन्यदिवसोपलक्षकः । दशरात्रेषित्येतदपि द्वादशरात्राद्युपलक्षणम् । समानाशौचयोः सन्निपाते पूर्वशेषेण एद्धिरित्यस्य क्वचिदपवादः शङ्खन दर्शितः,
"मातर्यग्रे प्रमीतायामशडौ घियते पिता।
पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम्" इति ॥ मातरि पूब्ब हतायां यदि तनिमित्ताशौचमध्ये पिता नियेत, तदा न पूर्वाशौचशेषेण शुद्धिः, किं तु पित्राशौचकालेनैव शद्धिः। तथा, पूब्ब पितरि मते तन्निमित्ताशौचमध्ये मातरि प्रमीतायामपि न पित्राशौचकाल-शेषेण शुद्धिः, किं तु पित्राशौचं समाप्य पविणे कुर्यादित्यर्थः।
उक्तस्य दशाहाद्याशौचस्य विषयान्तरेऽप्यपवादमाह,ब्राह्मणार्थे विपन्नानां बन्दीगोग्रहणे तथा ॥२६॥
आहवेषु विपन्नानामेकरात्रमशौचकम् । इति॥ ब्राह्मणप्राणरक्षणार्थं हतानां, वन्दीग्रहणे गोग्रहे च मति तद्विमोचना) हतानां, बाहवेवाभिमुख्येन हतानां, ये मपिण्डाम्तेषामेकरात्रमेवाशौचं न दशरात्रादिकमित्यर्थः । यच सद्यःशौचमित्यनुउत्तौ मनुनोत्रम्,
79
For Private And Personal