________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
३ख,या का ।
"कारवः शिल्पिनो वैद्याः दासी दासास्तथैव च ।
राजानो राजभृत्याश्च मद्य शौचाः प्रकीर्तिताः” इति ॥ बद्धपराशरोऽपि,
"राज्ञां तु सूतकं नास्ति वतिनां न च मत्रिणाम् । दीक्षितानाञ्च सर्वेषां यस्य चेच्छति पार्थिवः ॥
तपोदानप्रवृत्तेषु नाशौचं स्मृतमृतके"-इति । स्मृत्यन्तरमपि,
"नित्यमन्त्रप्रदस्थापि कृच्छ्रचान्द्रायणादिषु । प्रवृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ॥ ग्टहीतनियमस्थापि न स्यादन्यस्य कस्यचित् । निमन्त्रितेषु विप्रेषु प्रारचे श्राद्धकर्मणि ।। निमन्त्रितस्य विप्रस्य स्वाध्यायनिरतस्य च । देहे पिवषु तिष्ठत्म नाशौचं विद्यते क्वचित् ॥
प्रायश्चित्तप्ररत्तानां दार ब्रह्मविदां तथा" इति । मनुरपि,
"न राज्ञामघदोषोऽस्ति अतिनां न च मत्रिणाम् । ऐन्द्र स्थानमुपासोना ब्रह्मभृता हि ते सदा॥ राज्ञोमाहात्मिके स्थाने मद्यःशौचं विधीयते ।
प्रजानां परिरक्षार्थमासनं तत्र कारणम्" इति ॥ याज्ञवल्क्योऽपि,
"ऋत्विजां दीक्षितानाच्च यज्ञीयं कर्म कुर्वताम् । मत्रि-प्रति-ब्रह्मचारि-दान-ब्रह्मविदां तथा ॥
For Private And Personal