________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८०, आ०का० ।]
" मातुले पक्षिणीं रात्रिं शिष्यर्लिग्बान्धवेषु च - इति । तस्यायमर्थः । स्वल्पोपकारके मातुले । शिष्योऽन्योपनीतसाङ्गवेदाध्यायी । ऋत्विक श्राधानप्रभृतियावज्जीवमार्लिज्यकारी । बान्धवाः माढपिटबान्धवाः । एतेषु पक्षिष्याशौचमिति । अनौरस पुत्रादिषु त्रिरात्रमा शौचम् । तदाह विष्णुः, -
I
“अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।
परपूर्वी भार्यासु तासु मृतासु च - इति ॥
त्रिरात्रमित्यनुवर्त्तते । हारीतोऽपि -
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
६११
" परपूर्व्वा भार्यासु पुत्रेषु कृतकेषु च ।
मातामहे त्रिरात्रं स्यादेकान्हन्तु सपिण्डतः " - इति ॥ शङ्खोऽपि -
“अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ।
परपूर्व्वासु च स्वासु त्रिरात्राच्छुद्धिरिष्यते " - इति । अनौरमाः क्षेत्रजादयः । परपूर्वाः पुनर्भुवः । अन्यगताः खैरिण्यः । एतेष्वनौरमादिषु यत्प्रतियोगिकं भार्यात्वं पुत्रत्वञ्च तस्यैवेदं चिरात्रमाशौचमित्यर्थः । यत्त्वेकादविधानम्, -
For Private And Personal
“अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च - इति ।
तदमनिधिविषयम् । सन्निधावपि पितृसपिण्डानामेकारएव । तथाच मरीचिः,
"एकाहस्तु सपिण्डानां त्रिरात्रं यत्र वै पितुः" इति । यत्तु प्रजापतिनोक्रम्, -
"अन्याश्रितेषु दारेषु परपत्नीसुतेषु च ।