________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
३चा,पा०का।
"श्रा जन्मनस्तु चौड़ान्तं कन्या यदि विपद्यते। सद्यः शौचं भवेत्तत्र सर्ववर्णेषु नित्यशः ॥ ततोवाग्दानपर्यन्तं यावदेकाइमेव हि । ततः परं प्रद्धायां त्रिरात्रमिति निश्चयः ॥ वाकप्रदाने कृते तत्र ज्ञेयश्चोभयतस्त्रयहम् । पितुर्वरस्य च ततोदत्तानां भर्तुरेव हि।
खजात्यामशौचं स्यान्मृतके जातके तथा" -इति ॥ पुलस्त्योऽपि,
"मद्यस्त्वप्रौढ़कन्यायां प्रौढायां वासराच्छुचिः ।
प्रदत्तायां त्रिरात्रेण दत्तायां पक्षिणी भवेत्”-दति || प्रदत्तायां प्रक्रान्तदानायां वाचा दत्तायामिति यावत् । वाग्दानानन्तरं मृतायां त्रिरात्रम् । मनुरप्याह,
"स्त्रीणामसंस्कृतानान्तु अहाच्छुध्यन्ति वान्धवाः ।
यथोक्रेनैव कल्पेन प्राध्यन्ति तु मनाभयः" इति ॥ वान्धवाः पतिमपिण्डाः। सनामयः पिलमपिण्डाः। यथोक्रेन कल्पेन त्रिरात्रेण । अतएव मरीचिः,
"अवारिपूर्व प्रत्ता तु या नैव प्रतिपादिता ।
असंस्कृता तु मा जेया त्रिरात्रमुभयोः स्मृतम्"-दति ॥ उभयोरपिटपक्षयोः। तचूडायां यत् सद्यः भौचविधानं कतचडायां यदेकाहविधान, तन्मातापिटव्यतिरितविषयम् ।
"प्रत्ताऽप्रत्तासु योषित्सु संस्कृताऽसंस्कृतासु च । मातापित्रोस्त्रिरात्र स्थादितरेषां यथाविधि"-इति ॥
For Private And Personal