________________
Shri Mahavir Jain Aradhana Kendra
३०, च्या०का० । ]
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
वैजिकसंबन्धो जन्यजनकभावः । यत्तु स्मृत्यन्तरम्,
“प्राङ्नामकरणात्सद्य एकाहोद न्तजन्मनः " - इति । तहने * वेदितव्यम् । खनने तु मद्यः शुद्धिः । " श्रजातदन्ते वाले प्रेते सद्यएव नास्त्यग्नि संस्कारोनोदकक्रिया " - इति विष्णुस्मरणात् । तु वशिष्ठवचनं, "उनदिवर्षे प्रेते गर्भपतने वा सपिण्डानां चिराचम्” – इति । तनातदन्तस्याग्निसंस्कारे द्रष्टव्यम् । ततश्चैवं व्यवस्था । नामकरणात् प्राक् सद्यः शौचं नियतं, तदूर्ध्वं प्राक् दन्तजननादग्निसंस्कारक्रियायामेकाहः श्रन्यथा सद्यः शुद्धिः, तस्याप्यजातदन्तस्य चूडाकरणे चिराचं, दन्तजननादूर्ध्वमवाक् चूडाकरणादेकाहं खनने, श्रग्निसंस्कारे तु त्र्यहः, ऊर्ध्वं चूडायाः प्रागुपनयनात् त्र्यहः, उपनयनादूर्द्ध ब्राह्मणादीनां दशाहादिकमिति । इयं व्यवस्था पुमपत्यमरणे द्रष्टव्या । व्यपत्ये तु विशेषोवृद्धमनुना दर्शितः, - “प्रौढायान्तु कन्यायां सद्यः शौचं विधीयते ।
"
हस्त्वदत्तकन्यासु दत्तासु च त्र्यहं तथा" - इति ॥
* तदखनने, - इति मु० पुस्तके पाठः ।
६०७
श्रप्रौढायां प्रकृतचूडायामित्यर्थः
“श्रचूडायान्तु कन्यायां सद्यः शौचं विधीयते " - दत्यापस्तम्ब - स्मरणात् । अदत्तकन्यासु वाचाऽदत्तासु श्रहोरात्रं, दत्तासु वाग्दत्तासु व्यहम् । तथाच मरीचिः । “चूडाकरणे सद्यः शौचं प्राग्वाग्दानादेकाच्ह: दत्तानां प्राक् परिणयनात् त्र्यहम् " - इति । ब्रह्मपुराणेऽपि -
For Private And Personal