________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६००
पराशरमाधवः ।
[३५०, पाका ।
“नाशद्धिः प्रभवाशौचे व्यतीतेषु दिनेम्वपि"-इति । मनुरपि,
"निर्दशं ज्ञाति-मरणं श्रुत्वा पुत्रस्य जन्म च ।
मवामाजलमाप्नुत्य शुद्धोभवति मानवः" इति ॥ अत्र पुत्र-ग्रहणात् निर्देशेऽपि पितुः स्नानेन शुद्धिः, मपिण्डानान्त्वतिक्रान्ताशौचं नास्तीत्यर्थः । अन्तर्दशाहे तु शेषाहोभिर्विशद्धिः । तथाच शङ्ख,
“देशान्तरगतं श्रुत्वा कल्याणं मरणं तथा ।
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत्” इति । विविधोहि देशान्तर-मृतः ; कृतसंस्कारोऽकृतमस्कारश्च । तत्र कृतसंस्कारस्य मरण-श्रवणे मंवत्सरादागर्ल्ड वाऽशौचं वचन-दयेन व्यवस्थापितम्। अकृतसंस्कारस्य मरण-श्रवणे त्वाशौचग्रहण-पिण्डदानादेः कालविशेषोविवियते । अकृतसंस्कारोऽपि विविधः, मरणदिवम-ज्ञानाज्ञानभेदात् । यस्य हि मरण-दिवसेविज्ञातः, तस्य प्रत्याब्दिकादि-श्राद्धं तदिवस-एव कर्तव्यं, श्राशौचग्रहण-पिण्डोदकदानवनिषिद्ध-नक्षत्रादिकं पालोच्य तत्रानुष्ठेयम्, शिष्टाचारस्य तथा प्रवृत्तत्वात् । यस्य तु दिवसेन विज्ञातः, तं प्रत्ोतदुच्यते, देशान्तरगतो विप्रः प्रयासात् कालकारितात् ॥११॥ देह-नाशमनुप्राप्तस्तिथिन ज्ञायते यदि।। कृष्णाष्टमी त्वमावस्या कृष्णा चैकादशी च या ॥१२॥
* कालचोदितात्, इति मु० पुस्तके पाठः ।
For Private And Personal