SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir પૂર્વ परापारमाधवः। ३५०,या का । तथा च शङ्खः । “प्राड्नाम-करणात्सद्यः शुद्धिः" इति । कात्यायनोऽपि, "अनिवृत्ने दशाहे तु पञ्चत्वं यदि गच्छति ॥ मद्यएव विद्धिः स्यात् न प्रेतं नोदकक्रिया"-इति । मातापिटसहोदर-व्यतिरिक्त-विषयमेतत् । तथा च व्याघ्रः, "बाले मृते मपिण्डानां सद्यः शौचं विधीयते । दशाहेनैव दम्पत्योः मोदराणां तथैवच"-इति ॥ जातमते मृतजाते वा मपिण्डानां सद्यः शौचम् । जन्मदिवसे विमरणे मात्रादीनां दशाहेनैव एशिः, दिवमान्तरमरणे तु शेषाहोभिर्विद्धिः । तथा च व्याघ्रः,-- "अन्तर्दशाहे जातस्य शिशोनिक्रमणं यदा। सूतकेनैव शुद्धिः स्थापित्रोः शातातपोऽब्रवीत्" इति । स्मृत्यन्तरमपि। “अन्तर्दशाहोपरतस्य यत् पित्रादीनां मरणाशौचं तत् सूतकाहोभिः"-दति । गच्छतीति शेषः । जनन-निमित्तत्वाशौचं सर्वेषामस्त्येव । तथा च हारीतः । “जातमते मृतजाते वा मपिण्डानां दशाहः" इति। वृहस्पतिरपि, “दशाहाभ्यन्तरे बाले प्रमीते तस्य वान्धवैः । शावाशौचं न कर्त्तव्यं सत्याशौचं समाचरेत्”-दति ॥ एतच्च नाभिच्छेदादूद्धं वेदितव्यम् । तथा च जैमिनिः, "यावन्न विद्यते नालं तावन्नाप्नोति मृतकम् । छिन्ने नाले ततः पश्चात् मृतकन्त विधीयते"-इति । नाभिच्छेदात् प्राग्वृहन्मनुराह, For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy