________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०, व्या०का० ।]
" जाते कुमारे तदहः कामं कुर्यात् प्रतिग्रहम् । हिरण्य-धान्य- गो-वामस्तिलानां गुड मर्पिषाम् " - इति । शंखलिखितौ । “कुमार- प्रसत्रे प्राङ्गाभिच्छेदनात् * गुड़-तिल-हिरण्यवस्त्र - प्रावरण- गो-धान्यानां प्रतिग्रहेष्वदोषः, तदहरित्येके" । वृद्ध
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
याज्ञवल्क्यः,--
" कुमार - जन्म - दिवसे विप्रैः कार्यः प्रतिग्रहः । हिरण्य-भू- गवाश्वाज - वासः - शय्याऽऽसनादिषु ॥ तत्र सर्व्वं प्रतिग्राहां कृतान्नन्त न भक्षयेत् । भक्षयित्वा तु तन्मोहाद् द्विजश्चान्द्रायणञ्चरेत्” इति । बौधायनोऽपि -
"गुड़तैल - हिरण्यानाङ्गोधान्यानाञ्च वाससाम् । तस्मिन्नहनि दानञ्च कार्यं विप्रैः प्रतिग्रहः । ॥
प्राङ्गाभि-च्छेदनाद् ग्राह्यातानीत्यपरे जगुः " - इति ।
यास्तु जन्मदाख्याः सूतिकाग्टहाभिमानिन्योदेवता: +, तासां पूजायां प्रथम - षष्ठ- दशम-दिवसेष्व एद्धिर्नास्ति । तथा च व्यासः, -
"सुतिकाssवाम-निलयाजन्मदानाम देवताः ।
तासां याग-निमित्तन्तु शुद्धिर्जन्मनि कीर्त्तिता ॥ प्रथमे दिवमे षष्ठे दशमे चैव सर्व्वदा ।
त्रिवेतेषु न कुर्वीत मृतकं पुत्र जन्मनि " - इति ।
* नाभ्यामच्छिन्नायां, - इति मु० पुस्तके पाठः ।
+ विप्रैः कार्यः प्रतिग्रहः, - इति मु० पुस्तके पाठः ।
1 सूतिकाभिमानिन्योदेवताः, -- इति पाठोवङ्गीय पुस्तकेषु प्रायः ।
For Private And Personal
५८३