SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५८० पराशरमाधवः। [३५०या०का । परत्वेन युगान्तर-विषयत्वेन वा* व्याख्येयम्। 'पराशरावचोयथा'इत्यनेन स्वमतत्वं दर्शयन् मतान्तरेष्वप्यघ-संकोच-विकास-पराणि वचनानि मन्तीति सूचयति। तानि चाम्माभिर्व्यवस्थापितानि । उकस्याशौचस्थ कर्माधिकार- परिपन्थित्वात् मन्ध्याधुपासनस्यापि नित्तिप्राप्तावपवादमाह, उपासने तु विप्राणामङ्ग-शुद्धिश्च जायते॥२॥ इति । उपासनं मन्ध्यावन्दनानिहोत्राद्यनुष्ठानं, तस्मिन् प्रमते तात्कालिको शरीर-शुद्धिर्भवति । तदाह गोभिलः, "अग्निहोत्रादि-होमा) शुद्धिस्तात्कालिको स्मृता । पञ्चयजान्न कुर्वीत ह्यशङ्कः पुनरेव मः" इति । यावत्कालेनाग्निहोत्रं निष्पद्यते, तावदेव शुद्धिर्न परि । पुलस्त्योऽपि, "सन्ध्यामिष्टिं चर्चा होमं यावजीवं ममाचरेत् । न त्यजेत् मृतके वाऽपि त्यजन् गच्छत्यधोदिजः ॥ मृतके मृतके चैव सन्ध्याकर्म न मन्यजेत् । मनमोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः” इति । अञ्जलि-प्रक्षेपे तु वाचिकोच्चारणमभिप्रेत्य पैठीनसिराह। “सूतके मावियाऽञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्य ध्यायनमस्कयात्" । मनसोचारणस्य मार्जनादि-मन्त्रेष्वपि मिद्धत्वादचलो विशेष-विधानं वाचिकाभिप्रायम् । यत्तु मनुनोतम्, * युगान्तरविवयत्वेन बा, इति मुद्रिवातिरिक्तपुस्तकेषु न दृश्यते । + समाचरेत् इति सो० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy