SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५७० पराशर माधवः " शुचिता कर्म्म कर्त्तव्यम्” इति श्रुतेः । सा च शुद्धिर्यद्यपि पुरुषस्य स्वाभाविकी तथापि केनचिदागन्तुकेनाशौचाख्येन दोषरूपेण पुरुषगतातिशयेन कञ्चित्कालं प्रतिबध्यते । तच्चाशौचं कालेयत्तास्नानाद्यपनोद्य', अतस्तृतीयेऽध्याये तत्प्रतिपिपाददिषुरादी प्रतिबन्धापगमेनोत्तम्भितां शुद्धि प्रतिजानीते, अतः शुद्धिं प्रवक्ष्यामि जनने मरणे तथा । इति । Acharya Shri Kailashsagarsuri Gyanmandir यतो जननमरणयोर्धम्र्म्माधिकार परिपन्थिन्यशुद्धिः प्रोप्तोति अतस्तनिवर्त्तको पाय-प्रतिपादनेन शुद्धिं प्रवक्ष्यामि । जनन-मरणयोश्च अशुद्धि प्रापकत्वं मनुना दर्शितम, प्रतिज्ञातां शुद्धिं वर्णानुक्रमेण दर्शयति, - " दन्तजातेऽनुजाते च कृतच'ले च संस्थिते । अशुद्धा वान्धवाः सर्व्वे सूतके च तथोच्यते” -- देवलोऽपि - दिनत्रयेण शुद्धयन्ति ब्राह्मणाः प्रेत्सू के ॥ १ ॥ क्षत्रियो द्व दशाहेन वैश्यः पञ्चदशाहकैः । श्रद्रः शुद्धयति मासेन पराशर - वचो यथा ॥ २ ॥ ---- ननु दिनत्रयेण शुद्धयन्ति ब्राह्मणाः, - इत्येतद्बहु-स्मृति- विरुद्धम् । तथाच दक्षः, For Private And Personal इति ॥ "शुद्धयेद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्धयति” - इति । "दशाहं ब्रह्मणानान्तु क्षत्रियाणां त्रिपञ्चकम् । विंशद्रात्र तु वैश्यानां शूद्राणां मासमेव हि” - इति ॥
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy