________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
५७१
वसिष्ठोऽपि, -
"ब्राह्मणो दशरात्रेण पञ्चदशरात्रण क्षत्रियः ।
वेश्यो विंशतिरात्रण शूद्रो मासेन शुद्धयति” – इति । नैषदोषः। विप्रेषु व्यहाशौचस्य समानोदक-विषयत्वात्। तथाच मनुः -- “यहात्त दकदायिनः" - इति । दशाहाशौच-प्रतिपदकानि दक्षादि-वचनानि सपिण्ड-विषयाणि,
“दशाहं शावमाशौचं सपिण्डेषु विधीयते” - इति मनुस्मरणात्। कूर्मपुराणेऽपि, -
“दशाहं शावमाशौचं सपिण्डेषु विपश्चितः” – इति । वृहस्पतिरपि, -
“दशाहेन सपिण्डास्तु शुद्धयन्ति प्रेतसुके।
विरात्रेण सकुल्यास्तु स्नात्वा शुद्धयन्ति गोत्रजाः” इति । ननु, क्षत्रियो द्वादशाहेन, - इत्येतदप्यनेकस्मृतिविरुद्धम्। तत्र, वसिष्ठदेवलाभ्यां क्षत्रियस्य पञ्चदशाहाशौचमुक्त', तद्वचनं चोदाहतम्। शातातपस्त्वेकादशाहमाह, -
For Private And Personal