________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५६८
पराशरमाधवः
वदर*नोवार-श्यामाकैरग्निपरिचरणं कृत्वा पञ्चयज्ञक्रियां निवर्तयन्त आत्मानं प्रार्थयन्ते । वालखिल्या जटायराश्चीर-चर्म-वल्कलपरिवृताः कार्तिक्यां पौर्णमास्यां पुष्पफल । मुत्सृजन्तः शेषानष्टौ मासान् वृत्त्युपार्जनं कृत्वाऽग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां निवर्तयन्त आत्मानं प्रार्थयन्ते। फेनपा जोर्ण-पर्ण-फल-भोजिनोयत्र तत्र वा वसन्तः। परिब्राजकाअपि चतुर्विधा मवन्ति, कुटोचरावहूदकाः हंसाः परमहसाश्चेति । कुटीचराः स्वपुत्र-गृहेषु भैक्षचय्यां चरन्त आत्मान प्रार्थयन्ते। वहूदकास्त्रिदण्ड-कमण्डलु-जलपवित्र-पादुकाऽ ऽसनशिखा-यज्ञोपवोतकाषायवेषधारिणः साधुवृत्तेषु ब्राह्मणकुलेषु मैक्ष चरन्त आत्माल प्रार्थयन्ते। हंसा एकदण्डधराः शिखा । यज्ञोपवीत-धारिणः कमण्डलुहस्ता ग्रामैकरात्रवासिनो नगरे तोर्थेषों पञ्चरात्रं एकरात्र द्विरात्री कृच्छचान्द्रायणादि चरन्त आत्मान प्रार्थयन्ते। परमहंसा नाम एकदण्डधराः मुण्डाः । कन्थाकौपीन-वाससो व्यक्तलिङ्गा अनुन्मत्ता उन्मन्तवदाचरन्तस्त्रिदण्डकमण्डलु-शिक्यपद्मजलपवित्रपादुकाऽऽसन-शिखा-यज्ञोपवीतत्यागिनः शून्यागार-देवगृह-वासिनो न तेषां धर्मो ना धर्मो वा, न सत्य नापि चानृतं सर्वसमा: समलोष्टाश्मकाञ्चनाः, यथोपपन्न चातुर्वर्णे मैक्षचञ्चिरन्त आत्मानं मोक्षयन्ते।
“तेषामुपशमो धर्मोनियमो वनवासिनाम् ।। दानमेक गृहस्थानां शुश्रूषा ब्रह्मचारिणाम्”- इति ।
* पदर, - इति नास्ति स. शा० पुस्तकयोः । । पूवफल, - इति मु० पुस्तके पाठः। । शिखावर्ज,- इति स० शा० पुस्तकयोः पाठ। # तीर्थेष्टौ च, - इति मु० पुस्तके पाठः । में एकरात्र द्विरात्र',-- इति नास्ति स० शा० सो० पुस्तकेषु । ाँ मुण्डाः, - इति नास्ति मु० पुस्तके।
For Private And Personal