SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ५६७ उक्तानां ब्रह्मचर्यादीनां संन्यासान्तानां चतुर्णामाश्रमाणां प्रत्येकमवान्तरभेदाश्चतुविधाः। तदुक्तं महाभारते, - "ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः। चत्वार आश्रमाः प्रोक्ताः एकैकस्य चतुर्विधाः” - इति । तत्र चातुर्विध्यं कात्यायन-स्मृतेव्याचक्षते । ब्रह्मचारि-गृहस्थवानप्रस्थ-परिव्राजकाश्चत्वार आश्रमाः षोड़श-भेदाभवन्ति। तत्र ब्रह्मचारिणश्चतुर्विधा भवन्ति, गायत्रो ब्राह्मः प्राजापत्यो वृहन्निति । उपनयनादूर्द्ध त्रिरात्रमक्षारलवणाशी गायत्रीमधीते, स गायत्रः । अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्य चरेत, प्रतिदं द्वादश द्वादश वा, यावद्ग्रहणान्तं वा वेदस्य, स ब्राह्मः। स्वदारनिरतः ऋतुकालगामी सदापरदार वजितः स प्राजापत्यः । आ प्रायणाद्गुरोरपरित्यागी स नैष्ठिको वृहन्निति। गृहस्था अपि चतुविधा भवन्ति, वार्ताकवृत्तयः शालोनवृत्तयो यायावरा घोरसंन्यासिकाश्रेति। तत्र वार्ताकवृत्तयः, कृषि-गोरक्ष-वाणिज्यमगहितमुपयुञ्जानाः शतसंवत्सराभिः क्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते। शालीनवृत्त्यो यजन्तो न याजयन्तोधोयाना नाध्यापयन्तो ददतो न प्रतिगृह्णन्तः शतसंवत्सरामिः क्रियाभिर्यजन्त आत्मानं प्रर्थयन्ते। यायावरा यजन्तो याजयन्तोऽ. धोयाना अध्याययन्तो ददतः प्रतिगृह्णन्तः शतसंवत्सारभिः क्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते। घोरसंन्यासिका उद्ध त-परिपूताभिरद्भिः कायं कुर्वन्तः प्रतिदिवसमास्तृतोऽधवृत्तिमुपयुञ्जानां शतसंवत्सरामिः क्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते। वानप्रस्था अपि चतुर्विधाभवन्ति, वैखानसा औदुम्वरा वालखिल्याः फेनपाश्चेति। तत्र, वैखानसा अकृष्टपच्यौषधि-वनस्पतिमिग्रामवहिष्कृतामिरग्निपरचरपं कृल्या पञ्चयज्ञक्रिया निवर्तयन्त आत्मानं प्रार्थयन्ते। औदुम्वरा For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy