SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५६४ पराशरमाधवः आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम् । प्राग्रात्रेऽपररात्रे च मध्यरात्र तथैवच ॥ सन्ध्यास्वहि विशेषेण चिन्तयेन्नित्यमीश्वरम्” - इति । अथान्येयतिधर्माः। तत्राहात्रिः, - “अतः परं प्रक्ष्यामि आचारो यो यतः स्मृतः । अभ्युत्थान-प्रियालापैर्गुरुवत्प्रतिपूजनम् ॥ यतीनां ब्रतवृद्धानां स्वधर्ममनुवर्तिनाम् । विष्णुरूपेण वै कुन्निमस्कारं विधानतः" - इति । मनुरपि, - "कृत्त-केश-नख-श्मश्रुः पात्री दण्डी कुसुम्भवान् । विचरेन्नियतो नित्यं* सर्वभूतान्यपीड़यन् ॥ कपाल वृक्षमूलानि कुचेलमसहायता। समता चैव सस्मिन्नैतन्मुक्तस्य लक्षणम् ॥ नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालमेव प्रतीक्षेत निर्देशं भृतको यथा ॥ दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ अतिवादांस्तितिक्षेत नावमन्येत कञ्चन। न चेमन्देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ क्रुध्यन्तं न प्रतिक्रद्धय दाक्रष्टः कुशलं वदेत्। सप्तद्वारावकीर्णा च न वाचमनृतां वदेत् ॥ * विचरेञ्च यतिनित्यं, - इति,मु. पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy