________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
५६३
वोधयनोऽपि, -
"स्वयमाहृतपर्णेषु स्वयं शीणेषु वा पुनः। भूजीत न वटाश्वत्थकर जानान्तु पर्णके । कुम्भी-तिन्दुकयोऽपि कोविदारार्कयोस्तथा । आपद्यपि न कांस्ये तु मलाशी कांस्यभोजनः ॥
सौवर्णे राजते ताम्रमये वा त्रपु-सोसयोः" - इति । भोजन नियममाह स एव। “भिक्षाचर्यादुपावृत्तो हस्तौ पादौ च प्रक्षाल्याचम्यादित्यस्याग्रे निवेदयन्नुदुत्यं चित्रमिति ब्रह्मयज्ञानमिति च उद्वयं तमसस्परोति च जपित्वा मुज्जीत - इति । नृसिंहपुराणेऽपि,
"ततो निवर्त्य तत्पात्र संस्थाप्याचम्य संयमी। चतुरङ्ग लेष प्रक्षाल्य ग्रासमात्र समाहितः ॥ सर्वव्यञ्जन-संयुक्त पृथक पात्रे निवेदयेत्। सूर्यादिदेवभूतेभ्यो दत्त्वाऽन्नं प्रोक्ष्य वारिणा॥ भुजोत पर्णपुटके पात्र वा वाग्यतो यतिः । भुक्त्वा पात्र यतिनित्य क्षालयेन्मन्त्रपूर्वकम् ॥ न दुष्येत्तस्य तत्पात्र यज्ञेषु चमसा इव । अथाचम्य निरुद्धासु रुपतिष्ठेत मास्करम् ॥ जप-ध्यान-विशेषेण दिनशेषं नये धः । कृतसन्ध्यस्ततो रात्रिं नयेद्देव-गृहादिषु ॥ हृतपुण्डरीकनिलये ध्यात्वाऽऽत्मानमकल्मषम् । यतिधर्मरतः शान्तः सर्वभूतसमो वशो॥
प्राप्नोति परमं स्थानं यत्प्राप्य न निवर्तते" - इति। कुर्मपुराणेऽपि, -
"आदित्ये दर्शयित्वाऽन्न मुजीत प्राङ्मुखो यतिः । हुत्वा प्राणाहुतीः पञ्च प्रासानष्टौ समाहितः ।
For Private And Personal