________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५६२
पराशरमाधवः
यस्तु भिक्षां दातु' शक्तोऽपि नास्तिक्यान्न प्रयच्छति, तद्गृह वर्जये दित्याह वौधायनः, -
भिक्षा न दद्य: पञ्चाह' सप्ताह वा कदाचन । यस्मिन् गृहे जना मोात्त्यजेच्चण्डाल-वेश्मवत्' - इति । .
अनिन्द्य-गृहस्य वजने वाघमाह सएव, -
“साधु चापतितं विप्रं यो यतिः परिवर्जयेत् ।
स तस्य सुकृतं दत्वा दुष्कृतं प्रतिपद्यते" --- इति । यस्तु दरिद्रः श्रद्धालुतया स्वयमुपोष्यापि मिक्षां प्रयच्छति, तस्य मिक्षा न ग्राह्या। तदुक्त स्मृत्यन्तरे, -
"आत्मानं पीडयित्वाऽपि भिक्षां यः संप्रयच्छति ॥
सा मिक्षा हिंसिता ज्ञया नादद्यात्तादृश यतिः" - इति । मिक्षार्थ वहुषु गृहेष पर्यटितुमलसं प्रत्याह वौधायनः, -
"एकत्र लोभाद्र यो भिक्षुः पात्रपूरणमिच्छति ।
दाता स्वर्गमवाप्नोति भोक्ता भूजीत किल्विषम्"- इति । यतिपात्र विविनक्ति मनुः, -
"अतैजसानि पात्राणि तस्य स्युनिर्बणानि च । तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ अलाबु दारुपात्र वा मृन्मयं वैणवन्तथा। एतानि यति पात्राणि मनुः स्वायम्भुवोऽब्रवीत्" - इति ।
यमोऽपि, -
"हिरण्मयानि प्रात्राणि कृष्णायसमयानि च । यतीनां तान्यपात्राणि वज्जयेत्तानि भिक्षुकः” ।
For Private And Personal