________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
५६५
अध्यात्मरतिरासीनो निरपेक्षो निरामयः । आत्मनैव सहायेन सुखार्थो विचरेदिह ॥ संरक्षणार्थं भूतानां रात्रावहनि वा सदा । शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ अल्पान्नाभ्यवहारेण रहः स्थानासनेव च। हियमानानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ इन्द्रियाणां निरोधेन राग द्वेष-क्षयेण च । अहिंसया च भूतानाममृतत्वाय कल्पते"- इति ॥
दक्षोऽपि, -
"नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कथञ्चन । एतैः सर्वैः सुनिष्पन्नो यतिर्भवति नेतरः” - इति ।
वृहस्पतिरपि, -
"न किञ्चिद्भेषजादन्यदद्यादा दन्तधावनात् । विना भोजनकालन्तु भक्षयेदात्मवान् यतिः ।। नैवाददीत पाथेयं यतिः किञ्चिदनापदि । पक्क्वमापत्सु गृहोयाद्यावदह्रोपभुज्यते ॥ न तीर्थवासी नित्यं स्यान्नोपवासपरो यतिः ।
न चाध्ययनशोलः स्यान्न व्याख्यानपरोभवेत्”- इति । नाध्येतव्यमित्येतत् कर्मकाण्ड-विषयं, अन्यथा “उपनिषदमावर्तयेत्” - इति श्रुतिर्वाध्येत। न श्रोतव्यमित्येतद्ब्रह्ममीमांसा-व्यतिरिक्त. विषयम् , “श्रोतव्यो मन्तव्यो निदिध्यासितष्यः” - इति तन्मीमांसायां
* यज्यते, - इति मु० पुस्तके पाठः।
For Private And Personal