________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
१५७
न वसेत यतिः षटसु स्थानेष्वेतेषु कहिंचित् । राग द्वेषं मदं मायां दम्भ मोह परात्मसु ॥ षड़ेतानि यतिनित्यं मनसापि न चिन्तयेत् । मञ्चकं शुक्लवस्त्रञ्च स्त्रीकथां लौल्यमेव च ॥ दिवास्वापञ्च यानञ्च यतीनां पतनानि षट् । संयोगंच वियोगगंच वियोगस्य च साधनम् ॥ जोवेश्वरप्रधानानां स्वरूपाणि विचिन्तयेत्। आसनं पात्र-लोपश्च सञ्चयाः शिष्य-सङ्गहः ॥ दिवास्वापो वृथाजल्पो यतेबन्ध-कराणि षट् । एकहात्परतो ग्रामे पञ्चाहात् परतः पुरे । वर्षाभ्योऽन्यत्र तत्-स्थान*मासनं तदुदाहृतम् । उक्तानां यति-पात्राणामेकस्यापि न सङ्ग हः ॥ भिक्षोभैक्षभुजश्चापि पात्र-लोपः स उच्यते । गृहीतस्य त्रिदण्डादेद्वितीयस्य परिग्रहः ॥ कालान्तरोपभोगार्थ सञ्चयः परिकीर्तितः। शुश्रूषा-लाभ-पूजार्थ यशोऽथं वा परिग्रहः ॥ शिष्याणां न तु कारुण्यात् सस्नेहः शिष्यसंग्रहः । विद्या दिवा प्रकाशत्वादविद्या रात्रिरुच्यते ॥ विद्याभ्यासे प्रमादो यः स दिवास्वाप उच्यते। आध्यात्मिकी कथां मुक्त्वा शैक्षचर्या सुरस्तुतिम् ॥ अनुग्रहप्रदप्रश्नो वृथाजल्पः स उच्यते । अजिह्वः षण्डकः पङ्ग रन्धो वधिर एव च ॥ मुग्धश्च मुच्यते भिक्ष ः षड्भिरेतैर्न संशयः। इदं मृष्टमिदं नेति योऽश्नन्नपि न सज्जति ॥
* तद्वास, - इति स० पुस्तके पाठः ।
For Private And Personal