________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
हितं सत्यं मितं वक्ति तमजित प्रचक्षते । सद्योजातां यथा नारी तथा षोड़शबार्षिकीम् ॥ शतवर्षाञ्च यो दृष्टा निर्विकारः स षण्डकः । मिक्षार्थमठनं यस्य विण्मूत्रकरणाय च । योजनान्न परं याति सर्वथा पङ्ग रेव सः। तिष्उतो ब्रजतो वापि यस्य चक्षुर्न दूरगम् ॥ चतुर्युगद्वयं त्क्त्वा परिव्राट् सोऽन्ध उच्यते । हिताहितं मनोरामं वचः शोकावह यतिः * श्रुत्वा यो न शृणोतोव वधिरः स प्रकीर्तितः । सान्निध्ये विषयाणां यः समर्थोऽविकलेन्द्रियः । ॥ सुप्तवद्गवर्त्तते नित्यं स भिक्षुर्मुग्ध उच्यते॥" - इति ।
भिक्षाटनविधिमाह मनुः, -
“एककालं चरेद्भक्ष न प्रसज्येत विस्तरे। भैक्षप्रसक्तोहि यतिविषयेष्वपि सज्जते॥ विधूमे सन्न्मुषले व्यङ्गारे भुक्तवजिते । वृत्ते सराव-संपाते भिक्षां नित्य यतिश्वरेत् । अलाभे न विषादी स्याल्लामे चैव न हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान्मात्रा-सङ्गाद्विनिर्गतः" ॥ - इति । मोयन्ते, - इति मात्रा विषयास्तेषां सङ्गाद्विनिर्गतो यतस्ततीन हर्ष. विषादौ काय्यौ। यमोऽपि, -
"स्नात्वा शुचिः शुचौ देशे कृतजय्यः समाहितः। मिक्षार्थी प्रविशेद्गग्रामं राग-द्वेष-विवज्जितः॥
* फोकावहन्तु यत् , - इति मु. पुस्तके पाठः । i विजितेन्द्रियः, - इति मु० पुस्तके पाठः।
For Private And Personal