SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५६ पराशरमाधवः मत्स्य पुराणेऽपि, - "अष्टौ मासान् विहारः स्याद्यतीनां संयतात्मनाम् । एकत्र चतुरो मासान् वार्षिकान् निवसेत् पुनः ॥ अविमुक्ते प्रविष्टानां विहारस्तु न विद्यते । न दोषो भविता तत्र दृष्टं शास्त्र पुरातनम् ।" - इति । चातुर्मास्य-निवासे प्रयोजनमाह मेधातिथिः, - "संरक्षणार्थ जन्तूनां वसुधातलचारिणाम् । आषाढ़ादोश्च चतुर आ मासान् कार्तिकाद् यतिः॥ धर्मात्ये जलसम्पन्ने ग्रामान्ते निवसेच्छुचिः।" -- इति। अन्यानपि हेयोपादेयांश्च धर्मान् संगृह्याह स एव, - “श्रद्धया परयोपेतः परमात्म-परायणः । स्थूलसूक्ष्मशरीरेभ्यो मुच्यते दशषट्कवित् । त्रिदण्डं कुण्डिकां कन्यां मैक्ष-भाजनमासनम् । कौपीनाच्छादनं वासः षड़ेतानि परिग्रहेत् ॥ स्थावरं जङ्गमं वीजं तैजसं विषयायुधम् | षड़ेतानि न गृह्णीयाद् यति मंत्रपुरीषवत् ॥ रसायनं क्रियावाद ज्योतिष क्रयविक्रयम् । विविधानि च शिल्पानि वर्जयेत् परदारवत् ।। भिक्षाटनं जपं स्नानं ध्यानं शौचं सुरार्चनम् । कर्त्तव्याणि षड़ेतानि सर्वथा नृप ! दण्डवत् ॥ नटादि-प्रेक्षणं । तं प्रमदां सुहृदं तथा। भक्ष्यं भोज्यमुदक्यां च षण्न पश्येत् कदाचन । स्कन्धावारे खले सार्थे पुरे ग्रामे वसद्गृहे ॥ * विषमायुधम्, - इति स० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy