SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ५५५ हास्तपोबान-विज्ञाने योगो लघ्वशनं धृतिः । स्नानं सुरार्चनं ध्यानं प्राणायामो वलिः स्तुतिः । भिक्षाटनं जपः सन्ध्या त्यागः कर्मफलस्य च । एष स्वधर्मो विख्यातो यतीनां नियतात्मनाम् ।" - इति । प्रव्रज्यां कृत्वापि गुरोः समोपे ब्रह्मज्ञानपर्यन्तं निवसेत् । तदुक्तं लिङ्गपुराणे, - "आश्रमत्रयमुक्तस्य* प्राप्तस्य परमाश्रमम् । ततः संवत्सरस्यान्ते प्राप्य ज्ञानमनुत्तमम् । अनुज्ञाप्य गुरुश्चैव चरेद्धि पृथिवीमिमाम्। त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ॥ पिधाय बुद्धया द्वाराणि ध्यानेनैकमना भवेत्।" - इति । मत्स्य पुराणेऽपि, - "गुरोरपि हिते युक्तः स तु संवत्सरं वसेत् । नियमेष्वप्रमत्रस्तु यमेषु च सदा भवेत् ॥ प्राप्य चान्ते ततश्चैव ज्ञानयोगमनुत्तमम् । अविरोधेन धर्मस्य चरेत पृथिवी यतिः ॥"- इति । संवत्सरमित्युपलक्षणं, यावज्ज्ञानं तावन्निवसेत्। गृहसमोप-वासस्य ज्ञानार्थत्वात्। पृथिवी-विचरणे विशेषमाह कण्वः, - "एकरात्र वसेत् ग्रामै नगरे पञ्चरात्रकम् । वर्षाभ्योऽन्यत्र वर्षासु मांसांश्च चतुरो वसेत् ॥”- इति ॥ * अनमत्रयमुर्सृज्य, - इति मु० पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy